________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 720 // तथा तन्मनुष्याणां चतुर्थभक्तादाहारार्थ उत्पद्यते,तेच पृथिवीरसपुष्पफलाहाराः, तत्पृथिवी च रसतः खण्डादितुल्या, तेच मनुष्या वृक्षगेहाः, तत्र च गेहाद्यभावः, तन्मनुष्याणां च स्थिति: पल्योपमासङ्खयेयभागप्रमाणा, षण्मासावशेषायुषश्च ते मिथुनकानि प्रसुवते, एकाशीतिं च दिनानि तेऽपत्यमिथुनकानि पालयन्ति, उच्छ्रसितादिना च ते मृत्वा देवेषू(त्प?)द्यन्ते, इत्यादयश्चार्था अभिधीयन्त इति, वाचनान्तरे त्विदंदृश्यते, एवं जहा जीवाभिगमे उत्तरकुरुवत्तव्वयाए णेयव्वो, नाणत्तं अठ्ठधणुसया उस्सेहो चउसट्ठी पिट्ठकरंडया अणुसज्जणा नत्थि त्ति, तत्रायमर्थः, उत्तरकुरुषु मनुष्याणां त्रीणि गव्यूतान्युत्सेध उक्त इह त्वष्टौ धनुःशतानि, तथा तेषु मनुष्याणां द्वे शते षट्पञ्चाशदधिके पृष्ठकरण्डकानामुक्ते इह त चतुःषष्टिरिति, तथोत्तरकुराए णं भंते! कुराए कइविहा मणुस्सा अणुसजंति?, गोयमा! छव्विहा मणुस्सा अणुसज्जंति, तंजहा- पम्हगंधा मियगंधा अममा तेयली सहा सणिचारी इत्येवं मनुष्याणामनुषजना तत्रोक्तेह तुसानास्ति, तथाविधमनुष्याणांतत्राभावात्, एवं चेह त्रीणि नानात्वस्थानान्युतानि, सन्ति पुनरन्यान्यपि स्थित्यादीनि, किन्तु तान्यभियुक्तेन भावनीयानीति, अयं चेहैकोरुकद्वीपोद्देशकस्तृतीयः। अथ प्रकृतवाचनामनुसृत्योच्यते, किमन्तमिदंजीवाभिगमसूत्रमिह वाच्यम्? इत्याह जावे (प्रति० 3 उ०१) त्यादि यावच्छुद्धदन्तद्वीपः शुद्धदन्ताभिधानाष्टाविंशतितमान्तरद्वीपवक्तव्यतांयावत्, साऽपि कियद्रं यावद्वाच्या? इत्याह देवलोकपरिग्गहे त्यादि, देवलोकः परिग्रहो येषां ते देवलोकपरिग्रहाः देवगतिगामिन इत्यर्थः, इह चैकैकस्मिन्नन्तरद्वीप एकैक उद्देशकः, तत्र चैकोरुकद्वीपोद्देशकानन्तरमाभासिकद्वीपोद्देशकः, तत्र चैवं सूत्रं कहि णं भंते! दाहिणिल्लाणं आभासियमणूसाणं आभासिए नाम दीवे प.? गोयमा! जंबुद्दीवे दीवे चुल्लहिमवंतस्स वासहरपव्वयस्स दाहिणपुरच्छिमिल्लाओ चरिमंताओ लवणसमुदं तिन्नि जोयणसयाई ओगाहित्ता एत्थ णं दाहिणिल्लाणं आभासियनामंदीवे प० शेषमेकोरुकद्वीपवदिति चतुर्थः / एवं वैषाणिकद्वीपोद्देशकोऽपि नवरंदक्षिणापराच्चरमान्ता ९शतके उद्देशकः 3-30 अष्टाविंशत्यन्तरद्वीपाधिकारः। सूत्रम् 364 एकोरुकाद्यष्टाविंशत्यन्तरद्वीपस्थानप्रमाणादि प्रश्नाः / // 720 //