________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 701 // 8 शतके उद्देशक: 10 देशाऽऽराधनाअधिकारः। सूत्रम् 354 शीलश्रुतचतुर्भङ्गीप्रश्नाः / यत्पात्रं तारयिष्यति॥१॥अतस्ते प्ररूपयन्ति श्रुतं श्रेयः तथा शीलं श्रेयः 3, द्वयोरपि प्रत्येकं पुरुषस्य पवित्रतानिबन्धनत्वादिति, अन्ये तु व्याचक्षते शीलं श्रेयस्तावन्मुख्यवृत्त्या तथा श्रुतं श्रेयः श्रुतमपि श्रेयो गौणवृत्त्या तदुपकारित्वादित्यर्थ इत्येकीयं मतम्, अन्यदीयमतं तु श्रुतं श्रेयस्तावत्तथा शीलमपि श्रेयो गौणवृत्त्या तदुपकारित्वादित्यर्थः, अयंचार्थ इह सूत्रे काकुपाठाल्लभ्यते, एतस्य च प्रथमव्याख्यानेऽन्ययूथिकमतस्य मिथ्यात्वम्, पूर्वोक्तपक्षत्रयस्यापि फलसिद्धावनङ्गत्वात् समुदायपक्षस्यैव च फलसिद्धिकरणत्वात्, आह च णाणं पयासयं सोहओ तवो संजमो य गुत्तिकरो। तिण्हपि समाओगे मोक्खो जिणसासणे भणिओ॥१॥ (ज्ञानं प्रकाशकं तपः शोधकं संयमश्च गुप्तिकरः / त्रयाणामपि समायोगे जिनशासने मोक्षो भणितः॥१॥ तपःसंयमौ च शीलमेव, तथा संजोगसिद्धीइ फलं वयंति, न हु एगचक्केण रहो पयाइ। अंधो य पंगू य वणे समिच्चा, ते संपउत्ता नगरं पविट्ठा॥१॥इति, (फलं संयोगसिद्ध्या वदन्ति, एकचक्रेण न रथः प्रयाति / वनेऽन्धः पङ्गश्च समेत्य तौ संप्रयुक्तौ नगरं प्रविष्टौ॥१॥) द्वितीय व्याख्यानपक्षेऽपि मिथ्यात्वम्, संयोगतः फलसिद्धेदृष्टत्वाद्, एकैकस्य प्रधानेतरविवक्षयाऽसङ्गतत्वादिति, अहं पुनर्गौतम! एवमाख्यामि यावत्प्ररूपयामीत्यत्र श्रुतयुक्तं शीलं श्रेय इत्येतावान् वाक्यशेषो दृश्यः, अथ कस्मादेवम्?, अत्रोच्यते, एव मित्यादि, एवं वक्ष्यमाणन्यायेन पुरिसजायत्ति पुरुषप्रकाराः, सीलवं असुयवंति कोऽर्थः?, उवरए अविनायधम्मे त्ति, उपरतो निवृत्तः स्वबुद्ध्या पापात्, अविज्ञातधर्माभावतोऽनधिगतश्रुतज्ञानोबालतपस्वीत्यर्थः, गीतार्थानिश्रिततपश्चरणनिरतोऽगीतार्थ इत्यन्ये, देसाराहए त्ति देशं स्तोकमंशं मोक्षमार्गस्याराधयतीत्यर्थः सम्यग्बोधरहितत्वात् क्रियापरत्वाच्चेति, असीलवं सुयवंति, कोऽर्थः?-अणुवरए विन्नायधम्मे त्ति पापादनिवृत्तो विज्ञातधर्मा चाविरतिसम्यग्दृष्टिरितिभावः, देसविराहए त्ति देशं स्तोकमंशं ज्ञानादित्रयरूपस्य मोक्षमार्गस्य तृतीयभागरूपं चरित्रं विराधयतीत्यर्थः, प्राप्तस्य तस्यापालनादप्राप्तेर्वा, // 701 //