SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-२ // 700 // 8 शतके उद्देशक: 10 देशाऽऽराधनाधधिकारः। सूत्रम् 354 शीलश्रुतचतुर्भङ्गीप्रश्नाः / सेणं पुरिसेसीलवंसुयवं, उवरए विनायधम्मे, एस णं गोयमा! मए पुरिसे सव्वाराहए प०, तत्थ णंजे से चउत्थे पुरिसजाए सेणं पुरिसे असीलवं असुतवं, अणुवरए अविण्णायधम्मे, एस णंगोयमा? मए पुरिसे सव्वविराहए पन्नत्ते॥सूत्रम् 354 // * १रायगिह इत्यादि, तत्र चैवं खलु सील सेयं 1 सुयं सेयं 2 सुयं सेयं 3 सील सेयं 4 इत्येतस्य चूर्ण्यनुसारेणव्याख्या, एवं लोकसिद्धन्यायेन खलु निश्चयेन, इहान्ययूथिकाः केचित् क्रियामात्रादेवाभीष्टार्थसिद्धिमिच्छन्ति न च किञ्चिदपि ज्ञानेन प्रयोजनं निश्चेष्टत्वात्, घटादिकरणप्रवृत्तावाकाशादिपदार्थवत्, पठ्यते च क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् / यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत्॥१॥तथा जहा खरो चंदणभारवाही, भारस्स भागी न हु चंदणस्स। एवं खु नाणी चरणेण हीणो, नाणस्स भागी नहु सोगईए॥१॥ (यथा चन्दनभारवाही खरो भारभाग न चैव चन्दनस्य। एवं चरणहीनो ज्ञानी ज्ञानभाग न तु सुगतेः॥१॥) अतस्ते प्ररूपयन्ति- शीलं श्रेयःप्राणातिपातादिविरमणध्यानाध्ययनादिरूपा क्रियैव श्रेयः, अतिशयेन प्रशस्यं श्लाघ्यं पुरुषार्थसाधकत्वात्, श्रेयं वा समाश्रयणीयं पुरुषार्थविशेषार्थिना, अन्ये तु ज्ञानादेवेष्टार्थसिद्धिमिच्छन्ति, न क्रियातः, ज्ञानविकलस्य क्रियावतोऽपि फलसिद्ध्यदर्शनात्, अधीयते च विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता। मिथ्याज्ञानात्प्रवृत्तस्य, फलासंवाददर्शनात् ॥१॥तथा पढमं नाणं तओ दया, एवं चिट्ठइ सव्वसंजए। अन्नाणी किं काही किंवा नाही छेयपावयं // 1 // (प्रथमं ज्ञानं ततो दयैवं सर्वसंयतेषु तिष्ठति, अज्ञानी किं करिष्यति किं वा ज्ञास्यति छेकं पापकं वा॥ 1 // ) अतस्ते प्ररूपयन्ति, श्रुतं श्रेयः, श्रुतं श्रुतज्ञानंतदेव श्रेयः, अतिप्रशस्यमाश्रयणीयंवा पुरुषार्थसिद्धिहेतुत्वान्न तुशीलमिति, अन्ये तु ज्ञानक्रियाभ्यामन्योऽन्यनिरपेक्षाभ्यां फलमिच्छन्ति, ज्ञानं क्रियाविकलमेवोपसर्जनीभूतक्रियं वा फलदं क्रियाऽपि ज्ञानविकलोपसर्जनीभूतज्ञाना वा फलदेति भावः, भणन्ति च किञ्चिद्वेदमयं पात्रं, किञ्चित्पात्रं तपोमयम् / आगमिष्यति तत्पात्रं, // 700 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy