________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 697 // 8 शतके उद्देशकः 9 प्रयोगबन्धाधधिकारः। सूत्रम् 353 औदारिकादिदेशादिबन्धकजीवाल्पबहुत्वप्रश्राः / लक्खमेक्केक्कं / तिसमइया पुण तिन्निवि रासी कोडी भवेक्केक्का // 12 // प्रथम ऋजुगत्युत्पन्नसर्वबन्धकराशिः सहस्रं परिकल्पितं, क्षेत्रस्याल्पत्वात्, द्विसमयोत्पन्नानां द्वौ राशी, एकोऽबन्धकानामन्यः सर्वबन्धकानां तौ च प्रत्येकं लक्षमानौ, तत्क्षेत्रस्य बहुतरत्वात्, ये पुनस्त्रिभिः समयैरुत्पद्यन्ते तेषां त्रयो राशयः, तत्र चाद्ययोः समययोरबन्धको द्वौ राशी तृतीयस्तु सर्वबन्धको राशिः, ते च त्रयोऽपि प्रत्येक कोटीमानास्तत्क्षेत्रस्य बहुतमत्वादिति, तदेवं राशित्रयेऽपि सर्वबन्धकाः सहसं लक्षं कोटी चेत्येवं सर्वस्तोकाः, अबन्धकास्तु लक्षंकोटीद्वयं चेत्येवं विशेषाधिकास्त इति // 11-12 // एएसिं जहसंभवमत्थोवणयं करेज रासीणं / एत्तो असंखगुणिया वोच्छं जह देसबंधा से॥१३॥ एगो असंखभागो वट्टइ उववट्टणोववायम्मि। एगनिगोए निचं एवं सेसेसुवि स एव ॥१४॥अनेन च गाथाद्वयेनोद्वर्त्तनाभणनाद्विग्रहसमयसम्भवः, अन्तर्मुहूर्त्तान्ते परिवर्तनाभणानाञ्च निगोदस्थितिसमयमानमुक्तम्, ततश्च अयमर्थ:-॥१३-१४॥अंतोमुत्तमेत्ता ठिई निगोयाण जं विणिद्दिट्ठा। पल्लटुंति निगोया तम्हा अंतोमुहत्तेणं // 15 // तेसिं ठितिसमयाणं विग्गहसमया हवंति जइभागे। एवतिभागे सव्वे विग्गहिया सेसजीवाणं // 16 // सव्वेवि य विग्गहिया सेसाणं जं असंखभागंमि / तेणासंखगुणा देसबंधयाऽबंधएहितो॥१७॥ वेउब्वियआहारगतेयाकम्माइं पढियसिद्धाइं। तहवि विसेसो जो जत्थ तं तं भणीहामि // 18 // वेउब्वियसव्वबंधा थोवा जे पढमसमयदेवाई। तस्सेव देसबंधा असंखगुणिया कह के वा?॥१९॥ (उच्यते-) तेसिं चिय जे सेसा ते सव्वे सव्वबंधए मोत्तुं / होंति अबंधाणंता तव्वज्जा सेसजीवा जे // 20 // आहारसव्वबंधा थोवा दो तिन्नि पंच वा दस वा। संखेज्जगुणा देसे ते उ पुहुत्तं सहस्साणं // 21 // तेषामेव वैक्रियबन्धकानां सर्वबन्धकान् मुक्त्वा ये शेषास्ते सर्वे वैक्रियस्य देशबन्धका भवन्ति, तत्र चसर्वबन्धकान् मुक्त्वेत्यनेन कथमित्यस्य निर्वचनमुक्तं ये शेषा इत्यनेन तु के वेत्यस्येति, अबन्धकास्तु तस्यानन्ता भवन्ति, ते च के?, ये तर्जा- वैक्रियसर्वदेशबन्धकवर्जाः शेष जीवास्ते चौदारिकादिबन्धकाः // 697 //