________________ 8 शतके श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 695 // द्यधिकारः। बन्धक बहुत्वप्रश्नाः / इहाल्पबहुत्वाधिकारे वृद्धा गाथा एवं प्रपश्चितवन्तःओरालसव्वबंधा थोवा अब्बंधया विसेसाहिया। तत्तो य देसबंधा असंखगुणिया कह नेया?॥१॥ पढममि सव्वबंधो समए सेसेसु उद्देशकः 9 प्रयोगबन्धादेसबंधो उ। सिद्धाईण अबंधो विग्णहगइयाण य जियाणं॥२॥ इहौदारिकसर्वबन्धादीनामल्पत्वादिभावनार्थं सर्वबन्धादिस्वरूपं तावदुच्यते- इहर्जुगत्या विग्रहगत्या चोत्पद्यमानानां जीवानामुत्पत्तिक्षेत्रप्राप्तिप्रथमसमये सर्वबन्धो भवति, द्वितीयादिषु तु सूत्रम् 353 औदारिकादेशबन्धः, सिद्धादीनामित्यत्रादिशब्दाद्वैक्रियादिबन्धकानांचजीवानामौदारिकस्याबन्ध इति, इह च सिद्धादीनामबन्धकत्वे- दिदेशादिऽप्यत्यन्ताल्पत्वेनाविवक्षणाद्वैग्रहिकानेव प्रतीत्य सर्वबन्धकेभ्योऽबन्धका विशेषाधिका उक्ता इति॥१-२॥इह पुण विग्गहिए जीवाल्पच्चिय पडुच्च भणिया अबंधगा अहिया। सिद्धा अणंतभागंमि सव्वबन्धाणवि भवन्ति ॥३॥एतदेवाह-साधारणेष्वपि सर्वबन्धभावात्सर्वबन्धकाः सिद्धेभ्योऽनन्तगुणाः, यत एवं ततः सिद्धास्तेषामनन्तभागे वर्तन्ते, यदि सिद्धा अपि तेषामनन्तभागे वर्तन्ते / तदा सुतरां वैक्रियबन्धकादय इति प्रतीयन्त एव, ततश्च तान् विहायैव सिद्धपदमेवा(वेहा?)धीतमिति // 3 // उजुयाय एगवंका दुहओवंका गई भवे तिविहा / पढमाइ सव्वबंधा सव्वे बीयाइ अद्धं तु॥४॥ तइयाइ तइयभंगो लब्भइ जीवाण सव्वबंधाणं / इति तिन्नि सव्वबंधा रासी तिन्नेव य अबंधा॥५॥रासिप्पमाणओ ते तुल्लाऽबंधा य सव्वबंधा य। संखापमाणओ पुण अबंधगा पुण जहब्भहिया॥६॥ अथ सर्वबन्धकानामबन्धकानां च समताभिधानपूर्वकमबन्धकानां विशेषाधिकत्वमुपदर्शयितुमाहऋज्वायतायां गतौ सर्वबन्धका एवाद्यसमये भवन्त्येवमेकस्तेषांराशिः, एकवक्रया य उत्पद्यन्ते तेषां ये प्रथमे समये तेऽबन्धका द्वितीये तु सर्वबन्धका इत्येवं तेषां द्वितीयो राशिः, स चैकवक्राभिधानद्वितीयगत्योत्पद्यमानानामर्द्धभूतो भवतीति, द्विवक्रया गत्या ये पुनरुत्पद्यन्ते त आद्ये समयद्वयेऽबन्धकास्तृतीये तु सर्वबन्धकाः, अयं च सर्वबंधकानां तृतीयो राशिः, स च