________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 694 // पूर्वप्रतिपन्नानां बहुत्वात्, वैक्रियसर्वबन्धकेभ्यो देशबन्धका असङ्खयेयगुणाः, तैजसकार्मणयोरबन्धका अनन्तगुणाः, यस्मात्ते सिद्धास्ते च वैक्रियदेशबन्धकेभ्योऽनन्तगुणा एव, वनस्पतिवर्जसर्वजीवेभ्यः सिद्धानामनन्तगुणत्वादिति, औदारिकशरीरस्य सर्वबन्धका अनन्तगुणास्ते च वनस्पतिप्रभृतीन् प्रतीत्य प्रत्येतव्याः, तस्यैव चाबन्धका विशेषाधिकाः, एते हि विग्रहगतिकाः सिद्धादयश्च भवन्ति, तत्र च सिद्धादीनामत्यन्ताल्पत्वेनेहाविवक्षा, विग्रहगतिकाश्च वक्ष्यमाणन्यायेन सर्वबन्धकेभ्यो बहुतरा इति तेभ्यस्तदबन्धका विशेषाधिका इति, तस्यैव चौदारिकस्य देशबन्धका असङ्ख्यातगुणाः, विग्रहाद्धापेक्षया देशबन्धाद्धाया असङ्ख्यातगुणत्वात्, तेजसकार्मणयोर्देशबन्धका विशेषाधिकाः, यस्मात्सर्वेऽपि संसारिणस्तैजसकार्मणयोर्देशबन्धका भवन्ति, तत्र च ये विग्रहगतिका औदारिकसर्वबन्धका वैक्रियादिबन्धकाश्चत औदारिकदेशबन्धकेभ्योऽतिरिच्यन्त इति ते विशेषाधिका इति, वैक्रियशरीरस्याबन्धका विशेषाधिकाः, यस्माद्वैक्रियस्य बन्धकाः प्रायो देवनारका एव शेषास्तु तदबन्धकाः सिद्धाश्च, तत्र च सिद्धास्तैजसादिदेशबन्धकेभ्योऽतिरिच्यन्त इति ते विशेषाधिका उक्ताः, आहारकशरीरस्याबन्धका विशेषाधिका यस्मान्मनुष्याणामेवाहारकशरीरं वैक्रियं तु तदन्येषामपि, ततो वैक्रियबन्धकेभ्य आहारकबन्धकानां स्तोकत्वेन वैक्रियाबन्धकेभ्य आहारकाबन्धका विशेषाधिका इति / इह चेयं स्थापना ॥ओराल०१॥ ॥वेउब्विय०२॥ ॥आहारग०३॥ - ॥तैजस०४॥ ॥कार्मण०५॥ सव्वबंधा अणंता 6 सव्वबंध० असं० 3 सव्वबंध० थोवा 1 देसबंध० विसेसाहिया 9 देसबंधा विसेसाहिया 9 देसबंधा असंखेज०८ देसबंध० असंखे०४ देसबंध० संख्यातगुणा 2 अबंधा अणंता 5 अबंधा अणंता 5 (विग्रहगति) अबंधा | अबंधा विसेसाहिया 10 अबंधा विसेसाहिया 11 विसेसाहिया 7 8 शतके उद्देशकः 9 प्रयोगबन्धाघधिकारः। सूत्रम् 353 औदारिकादिदेशादिबन्धकजीवाल्पबहुत्वप्रश्नाः / // 694 //