________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 690 // 8 शतके उद्देशकः 9 प्रयोगबन्धाद्यधिकारः। सूत्रम् 351 कार्मणशरीरप्रयोगबन्ध तदष्टभेद, अष्टानां पुच्छा, गोयमा! सव्वत्थोवा जीवा आउयस्स कम्मस्स देसबंधगा अबंधगा संखेनगुणा 5 // सूत्रम् 351 // 74 कम्मासरीरे त्यादि, 75 णाणपडिणीययाए त्ति ज्ञानस्य श्रुतादेस्तदभेदाज्ज्ञानवतांवा या प्रत्यनीकता सामान्येन प्रतिकूलता सातथा तया,णाणनिण्हवणयाएत्ति ज्ञानस्य श्रुतस्य श्रुतगुरूणांवा या निह्नवताऽपलपनं सा तथा तया, नाणंतराएणं ति ज्ञानस्य श्रुतस्यान्तरायः तद्हणादौ विघ्नो यः स तथा तेन, नाणपओसेणं ति ज्ञाने श्रुतादौ ज्ञानवत्सु वा यः प्रद्वेषोऽप्रीतिः स तथा तेन, नाणऽच्चासायणाए त्ति ज्ञानस्य ज्ञानिनांवा याऽत्याशातना हीलना सा तथा तया, नाणविसंवायणाजोगेणं ति ज्ञानस्य ज्ञानिनांवा विसंवादनयोगो व्यभिचारदर्शनाय व्यापारो यः स तथा तेन, एतानि च बाह्यानि कारणानि ज्ञानावरणीयकार्मणशरीरबन्धे, अथाऽऽन्तरं कारणमाह नाणावरणिज्ज मित्यादि, ज्ञानावरणीयहेतुत्वेन ज्ञानावरणीयलक्षणं यत्कार्मणशरीरप्रयोग नाम तत्तथा तस्य कर्मण उदयेनेति, 76 दंसणपडिणीययाए त्ति, इह दर्शनंचक्षुर्दर्शनादि, 79 तिव्वदंसणमोहणिज्जयाए त्ति तीव्रमिथ्यात्वतयेत्यर्थः तिव्वचरित्तमोहणिज्जयाए ति कषायव्यतिरिक्तं नोकषायलक्षणमिह चारित्रमोहनीयं ग्राह्यम्, तीव्रक्रोधतयेत्यादिना कषायचारित्रमोहनीयस्य प्रागुक्तत्वादिति, महारंभयाए त्ति, अपरिमितकृष्याद्यारम्भतयेत्यर्थः, 80 महारंभपरिग्गहयाए त्ति, अपरिमाणपरिग्रहतया कुणिमाहारेणं ति मांसभोजनेनेति, 81 माइल्लयाए त्ति परवञ्चनबुद्धिव(म)त्तया नियडिल्लयाए निकृतिर्वञ्चनार्थं चेष्टा मायाप्रच्छादनार्थमायान्तरमित्येके, अत्यादरकरणेन परवञ्चनमित्यन्ये तद्वत्तया, 82 पगइभद्दयाए त्ति स्वभावतः पराननुतापितया, साणुक्कोसयाए त्ति सानुकम्पतया, अमच्छरियाए त्ति मत्सरिकः परगुणानामसोढा तद्भावनिषेधोऽमत्सरिकता तया॥ 84 सुभनामकम्मे त्यादि, इह शुभनाम देवगत्यादिकम्, कायउज्जुययाए त्ति कायर्जुकतया परावश्चनपरकायचेष्टया, भावुजुययाए त्ति भावर्जुकतया परावश्चनपरमनः प्रवृत्त्येत्यर्थः, भासुजुययाए त्ति भाषर्जुकतया भाषाऽऽर्जवेनेत्यर्थः, अविसंवायणाजोगेणं ति कर्मोदय देशसर्वबन्धकालान्तराल्पबहुत्वादिप्रश्ना : // 690 //