________________ श्रीभगवत्यङ्ग 8 शतके श्रीअभय वृत्तियुतम् भाग-२ // 686 // नौदारिकादिबन्धवदेकेन्द्रियाद्येनकप्रकार इत्यर्थः, 64 सव्वबंधे एक्कं समयं ति, आद्यसमय एव सर्वबन्धभावात्, देसबंधे जहन्नेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं ति, कथं?, जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्तमात्रमेवाहारकशरीरी भवति, परत औदारिकशरीरस्यावश्यं ग्रहणात्, तत्र चान्तर्मुहूर्ते आद्यसमये सर्वबन्ध उत्तरकालं च देशबन्ध इति // 65 अथाहारकशरीरप्रयोगबन्धस्यैवान्तरनिरूपणायाह, आहारे त्यादि, सव्वबंधंतरं जहन्नेणं अंतोमुहुत्तं ति, कथं?, मनुष्य आहारकशरीरं प्रतिपन्नस्तत्प्रथमसमये च सर्वबन्धकस्ततोऽन्तर्मुहूर्त्तमात्रं स्थित्वौदारिकशरीरंगतस्तत्राप्यन्तर्मुहूर्त स्थितः, पुनरपिच तस्य संशयादि आहारकशरीरकरणकारणमुत्पन्नंततः पुनरप्याहारकशरीरंगृह्णाति, तत्र च प्रथमसमये सर्वबन्धक एवेति, एवं च सर्वबन्धान्तरमन्तर्मुहर्तम्, द्वयोरप्यन्तर्मुहूर्त्तयोरेकत्वविवक्षणादिति, उक्कोसेणं अणंतं कालं ति, कथं?, यतोऽनन्तकालादाहारकशरीरं पुनर्लभत इति, कालानन्त्यमेव विशेषेणाह, अणंताओ उस्सप्पिणीओ ओस्सप्पिणीओ कालओ, खेत्तओ अणंता लोग त्ति, एतव्याख्यानं च प्राग्वत् / अथ तत्र पुद्गलपरावर्त्तपरिमाणं किं भवति? इत्याह, अवर्ल्ड पोग्गलपरियट्ट देसूणं ति, अपार्धमपगतार्द्धमर्द्धमात्रमित्यर्थः, पुद्गलपरावर्त प्रागुक्तस्वरूपम्, अपार्द्धमप्यर्द्धतः पूर्ण स्यादत आह, देशोनमिति / एवं देसबंधंतरंपि त्ति जघन्येनान्तर्मुहूर्त्तमुत्कर्षतः पुनरपार्द्ध पुद्गलपरावर्त देशोनम्, भावना तुपूर्वोक्तानुसारेणेति॥६६ अथाहारकशरीरदेशबन्धकादीनामल्पत्वादिनिरूपणायाह, एएसि ण मित्यादि, तत्र सर्वस्तोका आहारकस्य सर्वबन्धकास्तत्सर्वबन्धकालस्याल्पत्वात्, देशबन्धकाः सङ्ख्यातगुणास्तद्देशबन्धकालस्य बहुत्वात्, असङ्ख्यातगुणास्तु ते न भवन्ति, यतो मनुष्या अपि सङ्ख्याताः किं पुनराहारकशरीरदेशबन्धकाः?, अबन्धकास्त्वनन्तगुणाः, आहारकशरीरं हि मनुष्याणां तत्रापि संयतानां तेषामपि केषाञ्चिदेव कदाचिदेव च भवतीति,शेषकाले ते शेषसत्त्वाश्चाबन्धकाः, ततश्च सिद्धवनस्पत्यादीनामनन्तगुणत्वादनन्तगुणास्त उद्देशक:९ प्रयोगबन्धा| घधिकारः। सूत्रम् 349 | नैरयिकादीनां वैक्रियशरीरप्रयोगबन्धस्यकर्म, | देशबन्धादिकालान्तरादि अल्पबहुत्वादिप्रश्नाः // 686 //