SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-२ // 685 // असुरकुमारे त्यादि, तत्र जघन्या स्थितिरसुरकुमारादीनां व्यन्तराणां च दश वर्षसहस्राणि ज्योतिष्काणां पल्योपमाष्टभागः 8 शतके सौधर्मादिषु तु पलियमहियं दो सार साहिया सत्तदस य चोद्दस य सतरस ये त्यादि॥५६ आनतसूत्रे सव्वबंधंतर मित्यादि, एतस्य उद्देशकः९ प्रयोगबन्धाभावना, आनतकल्पीयो देव उत्पत्तौ सर्वबन्धकः, स चाष्टादशसागरोपमाणि तत्र स्थित्वा ततश्च्युतो वर्षपृथक्त्वं मनुष्येषु द्यधिकारः। स्थित्वा पुनस्तत्रैवोत्पन्नः प्रथमसमये चासौसर्वबन्धक इत्येवं सर्वबन्धान्तरंजघन्यमष्टादश सागरोपमाणिवर्षपृथक्त्वाधिका सूत्रम् 349 नैरयिकादीनां नीति, उत्कृष्टं त्वनन्तं कालम्, कथं?, स एव तस्माच्च्युतोऽनन्तं कालं वनस्पत्यादिषु स्थित्वा पुनस्तत्रैवोत्पन्नः प्रथमसमये वैक्रियशरीरचासौसर्वबन्धक इत्येवमिति, देसबंधंतरं जहन्नेणं वासपुहुत्तं ति, कथं?, स एव देशबन्धकः संश्च्युतोवर्षपृथक्त्वं मनुष्यत्वमनुभूय प्रयोगबन्ध स्यकर्म, पुनस्तत्रैव गतस्तस्य च सर्वबन्धानन्तरं देशबन्ध इत्येवं सूत्रोक्तमन्तरं भवति, इह च यद्यपि सर्वबन्धसमयाधिकं वर्षपृथक्त्वं देशबन्धादि कालान्तरादि भवति तथाऽपि तस्य वर्षपृथक्त्वादनान्तरत्वविवक्षया न भेदेन गणनमिति / एवं प्राणतारणाच्युत 57 ग्रैवेयकसूत्राण्यपि अल्पबहत्वाज्ञेयानि। अथ सनत्कुमारादिसहस्रारान्ता देवा जघन्यतो नवदिनायुष्केभ्य आनताद्यच्युतान्तास्तु नवमासायुष्केभ्यः समुत्पद्यन्त / दिप्रश्नाः। इति जीवसमासेऽभिधीयते, ततश्च जघन्यं तत्सर्वबन्धान्तरं तत्तदधिकतज्जघन्यस्थितिरूपं प्राप्नोतीति, सत्यमेतत्, केवलं मतान्तरमेवेदमिति // 58 अनुत्तरविमानसूत्रे तु, उक्कोसेण मित्यादि, उत्कृष्टं सर्वबन्धान्तरं देशबन्धान्तरं च सङ्ख्यातानि सागरोपमाणि, यतो नानन्तकालमनुत्तरविमानच्युतः संसरति, तानिच जीवसमासमतेन द्विसङ्ख्यानीति // 59 अथ वैक्रियशरीरदेशबन्धकादीनामल्पत्वादिनिरूपणायाह, एएसी त्यादि, तत्र सर्वस्तोका वैक्रियसर्वबन्धकास्तत्कालस्याल्पत्वात्, देशबन्धका असङ्खयातगुणास्तत्कालस्य तदपेक्षयाऽसङ्खयेयगुणत्वात्, अबन्धकास्त्वनन्तगुणाः सिद्धानां वनस्पत्यादीनां च तदपेक्षयाऽनन्तगुणत्वादिति / / 60 अथाहारकशरीरप्रयोगबन्धमधिकृत्याह, आहारे त्यादि, एगागारे त्ति, एकः प्रकारो // 685 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy