________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 684 // प्रतिपादितत्वात्, ततश्चसर्वबन्धान्तरं यथोक्तं भवतीति, उक्कोसेणं अणंतं कालं वणस्सइकालो त्ति, कथं?, वायुर्वैक्रियशरीरीभवन् / 8 शतके मृतो वनस्पत्यादिष्वनन्तं कालं स्थित्वा वैक्रियशरीरं पुनर्यदा लप्स्यते तदा यथोक्तमन्तरं भविष्यतीति, एवं देसबंधंतरंपि त्ति, उद्देशकः 9 प्रयोगबन्धाभावना चास्य प्रागुक्तानुसारेणेति // 55 रत्नप्रभासूत्रे सव्वबंधंतरं मित्यादि, एतद्भाव्यते, रत्नप्रभानारको दशवर्षसहस्रस्थितिक घधिकारः। उत्पत्तौ सर्वबन्धकः तत उद्धृतस्तु गर्भजपञ्चेन्द्रियेष्वन्तर्मुहूर्त स्थित्वा रत्नप्रभायां पुनरप्युत्पन्नः तत्र च प्रथमसमये सर्वबन्धक सूत्रम् 349 नैरयिकादीनां इत्येवं सूत्रोक्तं जघन्यमन्तरं सर्वबन्धयोरिति, अयंच यदाऽपि प्रथमोत्पत्तौ त्रिसमयविग्रहेणोत्पद्यते तदापि न दश वर्षसहस्राणि वैक्रियशरीर प्रयोगबन्धत्रिसमयन्यूनानि भवन्ति, अन्तर्मुहूर्तस्य मध्यात्समयत्रयस्य तत्र प्रक्षेपात्, न च तत्प्रक्षेपेऽप्यन्तर्मुहूर्तस्यान्तर्मुहूर्तत्वव्याघात |स्यकर्म, स्तस्यानेकभेदत्वादिति, उक्कोसेणं वणस्सइकालो त्ति, कथं?, रत्नप्रभानारक उत्पत्तौ सर्वबन्धकः तत उद्धृतश्चानन्तं कालं | देशबन्धादि कालान्तरादि वनस्पत्यादिषु स्थित्वा पुनस्तत्रैवोत्पद्यमानः सर्वबन्धक इत्येवमुत्कृष्टमन्तरमिति, देसबंधंतरं जहन्नेणं अंतोमुहुत्तं ति, कथं?, अल्पबहुत्वारत्नप्रभानारको देशबन्धकः सन् मृतोऽन्तर्मुहूर्तायुः पञ्चेन्द्रियतिर्यक्तयोत्पद्य मृत्वा रत्नप्रभानारकतयोत्पन्नः, तत्र च द्वितीयसमये दिप्रश्नाः। देशबन्धकः इत्येवं जघन्यं देशबन्धान्तरमिति, O उक्कोसेण मित्यादि, भावना प्रागुक्तानुसारेणेति / शर्कराप्रभादिनारकाणां वैक्रियशरीरबन्धान्तरमतिदेशतः सङ्केपार्थमाह, एवं जावे त्यादि, द्वितीयादिपृथिवीषु च जघन्या स्थितिः क्रमेणैकं त्रीणि सप्त दश सप्तदश द्वाविंशतिश्च सागरोपमाणीति। पंचिंदिए इत्यादौ जहा वाउकाइयाणं तिजघन्येनान्तर्मुहूर्तमुत्कृष्टतःपुनरनन्तं कालमित्यर्थः / असुरकुमारदयस्तु सहस्रारान्ता देवा उत्पत्तिसमये सर्वबन्धं कृत्वा स्वकीयां च जघन्यस्थितिमनुपाल्य पञ्चेन्द्रियतिर्यक्षु जघन्येनान्तर्मुहूर्तायुष्कत्वेन समुत्पद्य मृत्वा च तेष्वेव सर्वबन्धका जाताः, एवं च तेषां वैक्रियस्य जघन्यं सर्वबन्धान्तरंजघन्या तत्स्थितिरन्तर्मुहूर्त्ताधिका वक्तव्या, उत्कृष्टं त्वनन्तं कालं यथा रत्नप्रभानारकाणामिति, एतदर्शनायाह, // 684 //