SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 683 // प्रयोगबन्धा सूत्रम् 349 सर्वबन्धको भूत्वा मृतः पुनर्वायुरेव जातः, तस्य चापर्याप्तकस्य वैक्रियशक्ति विर्भवतीत्यन्तर्मुहूर्त्तमात्रेणासौ पर्याप्तको भूत्वा 8 शतके वैक्रियशरीरमारभते, तत्र चासौ प्रथमसमये सर्वबन्धको जात इत्येवं सर्वबन्धान्तरमन्तर्मुहूर्त्तमिति, उक्कोसेणं पलिओवमस्स उद्देशक:९ असंखेज्जइभागं ति, कथं?, वायुरौदारिकशरीरी वैक्रियं गतः, तत्प्रथमसमये च सर्वबन्धकस्ततो देशबन्धको भूत्वा मृतस्ततः घधिकारः। परमौदारिकशरीरिषु वायुषु पल्योपमासङ्खयेयभागमतिवाह्यावश्यं वैक्रियं करोति, तत्र च प्रथमसमये सर्वबन्धकः, एवं च नैरयिकादीनां सर्वबन्धयोर्यथोक्तमन्तरं भवतीति, एवं देसबंधतरंपि त्ति, अस्य भावना प्रागिवेति / 53 तिरिक्खे त्यादि, सव्वबंधतरं जहन्नेणं प्रयोगबन्धअंतोमुहत्तं ति, कथं?, पञ्चेन्द्रियतिर्यग्योनिको वैक्रियं गतः तत्र च प्रथमसमये सर्वबन्धकस्ततः परं देशबन्धकोऽन्तर्मुहूर्त्तमात्रं स्यकर्म, तत औदारिकस्य सर्वबन्धको भूत्वा समयं देशबन्धको जातः पुनरपि श्रद्धेयमुत्पन्ना वैक्रियं करोमीति पुनर्वैक्रियं कुर्वतः देशबन्धादि कालान्तरादि प्रथमसमये सर्वबन्धः, एवं च सर्वबन्धयोर्यथोक्तमन्तरं भवतीति, उक्कोसेणं पुवकोडिपुहत्तं ति, कथं?, पूर्वकोट्यायुः पञ्चेन्द्रिय-2 तिर्यग्योनिको वैक्रियं गतः, तत्रच प्रथमसमये सर्वबन्धकस्ततो देशबन्धको भूत्वा कालान्तरे मृतस्तत्र पूर्वकोट्यायुः पञ्चेन्द्रिय- दिप्रश्नाः / तिर्यक्ष्वेवोत्पन्नः पूर्वजन्मना सह सप्ताष्टौ वा वारान्, ततः सप्तमेऽष्टमे वा भवे वैक्रियं गतः, तत्र च प्रथमसमये सर्वबन्धं कृत्वा / देशबन्धं करोतीति, एवं च सर्वबन्धयोरुत्कृष्टं यथोक्तमन्तरं भवतीति, एवं देसबंधंतरंपित्ति, भावना चास्य सर्वबन्धान्तरोक्तभावनानुसारेण कर्त्तव्येति // 54 वैक्रियशरीरबन्धान्तरमेव प्रकारान्तरेण चिन्तयन्नाह जीवस्से त्यादि, सव्वबंधंतरं जहन्नेणं / अंतोमुहुत्तं ति, कथं?, वायुर्वैक्रियशरीरं प्रतिपन्नः, तत्र च प्रथमसमये सर्वबन्धको भूत्वा मृतस्ततः पृथिवीकायिकेषूत्पन्नः। तत्रापि क्षुल्लकभवग्रहणमात्रं स्थित्वा पुनर्वायुर्जातः, तत्रापि कतिपयान् क्षुल्लकभवान् स्थित्वा वैक्रियं गतः, तत्रच प्रथमसमये सर्वबन्धको जातस्ततश्च वैक्रियस्य सर्वबन्धयोरन्तरं बहवः क्षुल्लकभवास्ते च बहवोऽप्यन्तर्मुहूर्त्तम्, अन्तर्मुहर्ते बहूनां क्षुल्लकभवानां अल्पबहत्या // 683 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy