________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-२ // 682 // समये सर्वबन्धकस्ततो देशबन्धको वैक्रियस्य तदेवमाद्यसमयत्रयन्यूनं वर्षसहस्रदशकंजघन्यतो देशबन्धः, उक्कोसेणं सागरोवम समयऊणं ति, कथं?, अविग्रहेण रत्नप्रभायामुत्कृष्टस्थिति रकः समुत्पन्नः, तत्र च प्रथमसमये सर्वबन्धको वैक्रियशरीरस्य ततः परं देशबन्धकस्तेन सर्वबन्धसमयेनोनं सागरोपममुत्कर्षतो देशबन्ध इति, एवं सर्वत्र सर्वबन्धः समयम्, देशबन्धश्च जघन्यो विग्रहसमयनयन्यूनो निजनिजजघन्यस्थितिप्रमाणो वाच्यः, सर्वबन्धसमयन्यूनोत्कृष्टस्थितिप्रमाणश्चोत्कृष्टदेशबन्ध इति, एतदेवाह, एवं जावेत्यादि, पञ्चेन्द्रियतिर्यमनुष्याणां वैक्रियसर्वबन्ध एकं समयं देशबन्धस्तु जघन्यत एकंसमयमुत्कर्षण त्वन्तर्मुहूर्त्तम् ॥०एतदेवातिदेशेनाह पंचिंदिये त्यादि, यच्च अंतमुहुत्तं निरएसु होइ चत्तारि तिरियमणुएसु। देवेसु अद्धमासो उक्कोसविउव्वणाकालो॥१॥(नरकेष्वन्तर्मुहूतं भवति तिर्यमनुष्येषु चत्वारि देवेष्वर्द्धमास उत्कृष्टो विकुर्वणाकालः॥१॥) इति वचनसामर्थ्यादन्तर्मुहूर्तचतुष्टयं तेषां देशबन्ध इत्युच्यते तन्मतान्तरमित्यवसेयमिति॥उक्तो वैक्रियशरीरप्रयोगबन्धस्य कालः,५१ अथ तस्यैवान्तरं निरूपयन्नाह वेउव्विये त्यादि, सव्वबंधंतरं जहन्नेणं एवं समयं ति, कथं?, औदारिकशरीरी वैक्रियं गतः प्रथमसमये सर्वबन्धको द्वितीये देशबन्धको भूत्वा मृतो देवेषु नारकेषु वा वैक्रियशरीरिष्वविग्रहेणोत्पद्यमानः प्रथमसमये सर्वबन्धक इत्येवमेकः समयः सर्वबन्धान्तरमिति, उक्कोसेणं अणंतं कालं ति, कथं?, औदारिकशरीरी वैक्रियं गतो वैक्रियशरीरिषु वा देवादिषु समुत्पन्नः स च प्रथमसमये सर्वबन्धको भूत्वा देशबन्धं च कृत्वा मृतः ततः परमनन्तं कालमौदारिकशरीरिषु वनस्पत्यादिषु स्थित्वा वैक्रियशरीरवत्सूत्पन्नः, तत्रच प्रथमसमये सर्वबन्धको जातः, एवं च सर्वबन्धयोर्यथोक्तमन्तरं भवतीति, 01 (ग्रन्थाग्रम् 9000) एवं देसबंधंतरंपित्ति, जघन्येनैकं समयमुत्कृष्टतोऽनन्तं कालमित्यर्थः, भावना चास्य पूर्वोक्तानुसारेणेति॥ 52 वाउक्काइए त्यादि सव्वबंधतरं जहन्नेणं अंतोमुहुत्तं ति, कथं?, वायुरौदारिकशरीरी वैक्रियमापन्नः, तत्र च प्रथमसमये ८शतके उद्देशक: प्रयोगबन्याघधिकारः। सूत्रम् 349 नैरयिकादीनां वैक्रियशरीरप्रयोगबन्धस्यकर्म, देशबन्धादिकालान्तरादि अल्पबहुत्वादिप्रश्नाः। 682 //