________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ / / 681 // 41 तत्रैगिंदियवेउव्विए इत्यादि वायुकायिकापेक्षमुक्तं पंचिंदिए त्यादि तु पञ्चेन्द्रियतिर्यङ्मनुष्यदेवनारकापेक्षमिति। 43 वीरिये त्यादौ यावत्करणात् पमायपच्चया कम्मं च जोगं च भवं चे ति द्रष्टव्यं लद्धिं व त्ति वैक्रियकरणलब्धिं वा प्रतीत्य, एतच्च वायुपञ्चेन्द्रियतिर्यननुष्यानपेक्ष्योक्तं तेन वायुकायादिसूत्रेषु लब्धिं वैक्रियशरीरबन्धस्य प्रत्ययतया वक्ष्यति, नारकदेवसूत्रेषु पुनस्तां विहाय वीर्यसयोगसहव्यतादीन् प्रत्ययतया वक्ष्यतीति // 48 सव्वबंधे जहन्नेणं एक्कं समयं ति, कथं?, वैक्रियशरीरिषूत्पद्यमानो लब्धितो वा तत् कुर्वन् समयमेकं सर्वबन्धको भवतीत्येवमेकं समयं सर्वबन्ध इति, उक्कोसेणं दो समय त्ति, कथं?, औदारिकशरीरी वैक्रियतांप्रतिपद्यमानः सर्वबन्धको भूत्वा मृतः पुनर्नारकत्वं देवत्वंवा यदा प्राप्नोति तदा प्रथमसमये वैक्रियस्य सर्वबन्धक एवेतिकृत्वा वैक्रियशरीरस्य सर्वबन्धक उत्कृष्टतः समयद्वयमिति, देसबंधे जहन्नेणं एक्कं समयं ति, कथं? औदारिकशरीरी वैक्रियतांप्रतिपद्यमानः प्रथमसमये सर्वबन्धको भवति द्वितीयसमये देशबन्धको भूत्वा मृत इत्येवं देशबन्धो जघन्यत एकं समयमिति, उक्कोसेणं तेत्तीसं सागरोवमाई समयऊणाई ति, कथं?, देवेषु नारकेषु चोत्कृष्टस्थितिषूत्पद्यमानः प्रथम समये सर्वबन्धको वैक्रियशरीरस्य ततः परं देशबन्धकस्तेन सर्वबन्धकसमयेनोनानि त्रयस्त्रिंशत्सागरोपमाण्युत्कर्षतो देशबन्ध इति // 49 वाउक्काइए इत्यादि, देसबंधे जहन्नेणं एक समयं ति, कथं?, वायुरौदारिकशरीरी सन् वैक्रियं गतस्ततः प्रथमसमये सर्वबन्धको द्वितीयसमये देशबन्धको भूत्वा मृत इत्येवं जघन्येनैको देशबन्धसमयः, उक्कोसेणं अंतोमुहत्तं ति वैक्रियशरीरेण स एव यदाऽन्तर्मुहूर्त्तमात्रमास्ते तदोत्कर्षतो देशबन्धोऽन्तर्मुहूर्त्तम्, लब्धिवैक्रियशरीरिणो जीवतोऽन्तर्मुहूर्तात्परतोन वैक्रियशरीरावस्थानमस्ति, पुनरौदारिकशरीरस्यावश्यं प्रतिपत्तेरिति // 50 रयणप्पभे त्यादि, देसबंधे जहन्नेणं दस वाससहस्साई तिसमयऊणाई ति, कथं?, त्रिसमयविग्रहेण रत्नप्रभायां जघन्यस्थिति रकः समुत्पन्नः तत्र च समयद्वयमनाहारकस्तृतीयेच ८शतके उद्देशकः१ प्रयोगबन्धाघधिकारः। सूत्रम् 349 नैरयिकादीनां वैक्रियशरीरप्रयोगबन्धस्यकर्म, देशबन्धादिकालान्तरादि अल्पबहुत्वादिप्रश्नाः / // 681 //