SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 677 // देसबंधंतरंजहन्नेण मित्यादि, भावना त्वेवम्, पृथिवीकायिको देशबन्धकःसन्मृतः पृथिवीकायिकेषु क्षुल्लकभवग्रहणंजीवित्वा मृतः सन् पुनरविग्रहेण पृथिवीकायिकेष्वेवोत्पन्नः, तत्र च सर्वबन्धसमयानन्तरं देशबन्धको जात एवं च सर्वबन्धसमयेनाधिकमेकं क्षुल्लकभवग्रहणं देशबन्धयोरन्तरमिति। वणस्सइकाइयाणं दोन्नि खुड्डाईति वनस्पतिकायिकानांजघन्यतः सर्वबन्धान्तरं द्वे क्षुल्लके भवग्रहणे, एवं चेव त्तिकरणात्रिसमयोने इति दृश्यम्, एतद्भावना च वनस्पतिकायिकस्त्रिसमयेन विग्रहेणोत्पन्नः तत्रच विग्रहस्यसमयद्वयमनाहारकस्तृतीयेसमयेच सर्वबन्धको भूत्वा क्षुल्लकभवंचजीवित्वा पुनः पृथिव्यादिषु क्षुल्लकभवमेव स्थित्वा पुनरविग्रहेण वनस्पतिकायिकेष्वेवोत्पन्नः प्रथमसमये च सर्वबन्धकोऽसाविति सर्वबन्धयोस्त्रिसमयोने द्वे क्षुल्लकभवग्रहणे अन्तरं भवत इति / उक्कोसेण मित्यादि, अयं च पृथिव्यादिषु कायस्थितिकालः, एवं देसबंधतरंपि त्ति यथा पृथिव्यादीनां देशबन्धान्तरंजघन्यमेवं वनस्पतेरपि, तच्च क्षुल्लकभवग्रहणं समयाधिकम्, भावनाचास्य पूर्ववत्, उक्कोसेणं पुढविकालोत्ति, उत्कर्षेण वनस्पतेर्देशबन्धान्तरं पृथिवीकालः पृथिवीकायस्थितिकालोऽसङ्ख्यातावसर्पिण्युत्सर्पिण्यादिरूप इति॥४० अथौदारिकदेशबन्धकादीनामल्पत्वादिनिरूपणायाह, एएसीत्यादि, तत्र सर्वस्तोकाःसर्वबन्धकास्तेषामुत्पत्तिसमय एव भावात्, अबन्धका विशेषाधिकाः, यतो विग्रहगतौ सिद्धत्वादौ च ते भवन्ति, ते च सर्वबन्धकापेक्षया विशेषाधिकाः, देशबन्धका असङ्ख्यातगुणाः, देशबन्धकालस्यासनयातगुणत्वात्, एतस्य च सूत्रस्य भावनां विशेषतोऽग्रे वक्ष्याम इति॥ 348 // अथ वैक्रियशरीरप्रयोगबन्धनिरूपणायाह 41 वेउब्वियसरीरप्पयोगबंधे णं भंते! कतिविहे प०?, गोयमा! दुविहे पन्नत्ते, तंजहा- एगिदियवेउव्वियसरीरप्पयोगबंधे य पंचिंदियवेउब्वियसरीरप्पयोगबंधे य। 42 जइ एगिदियवेउ० किं वाउक्काइयएगिदिय०सरीर० य अवाउक्काइयएगिदिय० एवं एएणं अभिलावेणंजहा ओगाहणसंठाणे (प्रज्ञा०पद 21 प० ४१४-२)वेउब्वियसरीरभेदो तहा भाणियव्वोजाव पज्जत्तसव्वट्ठसिद्धअणुत्तरो ८शतके उद्देशकः९ प्रयोगबन्धाघधिकारः। सूत्रम् 349 नैरयिकादीनां वैक्रियशरीरप्रयोगबन्धस्यकर्म, देशबन्धादिकालान्तरादि अल्पबहुत्वादिप्रश्नाः। 8 // 677 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy