________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-२ // 676 // उक्कोसेणं दो सागरोवमसहस्साईसंखेज्जवासमब्भहियाइंति, कथम्?, अविग्रहेणैकेन्द्रियः समुत्पन्नस्तत्रच प्रथमसमये सर्वबन्धको 8 शतके भूत्वा द्वाविंशति वर्षसहस्राणि जीवित्वा मृतस्त्रसकायिकेषु चोत्पन्नः, तत्र सङ्कत्यातवर्षाभ्यधिकसागरोपमसहस्रद्वयरूपा-8 उद्देशक:९ प्रयोगबन्धामुत्कृष्टत्रसकायिककायस्थितिमतिवाह्य, एकेन्द्रियेष्वेवोत्पद्य सर्वबन्धको जात इत्येवं सर्वबन्धयोर्यथोक्तमन्तरं भवति, अधिकारः। सूत्रम् 348 सर्वबन्धसमयहीनएकेन्द्रियोत्कृष्टभवस्थितेस्त्रसकायस्थितौ प्रक्षेपणेऽपि सङ्ग्यातस्थानानां सङ्ख्यातभेदत्वेन सङ्ग्यात शरीरप्रयोगवर्षाभ्यधिकत्वस्याव्याहतत्वादिति / देसबंधतरं जहन्नेणं खुड्डागं भवगहणं समयाहियं ति, कथम्? एकेन्द्रियो देशबन्धकः सन् बन्दस्यौदा रिकादि मृत्वा द्वीन्द्रियादिषु क्षुल्लकभवग्रहणमनुभूयाविग्रहेण चागत्य प्रथमसमये सर्वबन्धको भूत्वा द्वितीये देशबन्धको भवति, एवं एकेन्द्रियौ० च देशबन्धान्तरं क्षुल्लकभवः सर्वबन्धसमयातिरिक्तः, उक्कोसेण मित्यादि सर्वबन्धान्तरभावनोक्तप्रकारेण भावनीयमिति॥ | आदिभेद प्रभेद तस्य३९ अथ पृथिवीकायिकबन्धान्तरं चिन्तयन्नाह जीवस्से त्यादि, एवं चेव त्ति करणात्, तिसमयऊणाई ति दृश्यम्, उक्कोसेणं देशादिबन्ध अणंतं कालं ति, इह कालानन्तत्वं वनस्पतिकायस्थितिकालापेक्षयाऽनन्तकालमित्युक्तं तद्विभजनार्थमाह,अणंताओइत्यादि, दि प्रश्नाः / अयमभिप्रायः, तस्यानन्तस्यकालस्यसमयेष्ववसर्पिण्युत्सर्पिणीसमयैरपहियमाणेष्वनन्ता अवसर्पिण्युत्सर्पिण्योभवन्तीति, कालओत्ति, इदं कालापेक्षया मानम्, खेत्तओत्ति क्षेत्रापेक्षया पुनरिदम्, अणंता लोग त्ति,अयमर्थः, तस्यानन्तकालस्य समयेषु / लोकाकाशप्रदेशैरपहियमाणेष्वनन्ता लोका भवन्ति, अथ तत्र कियन्तः पुद्गलपरावर्ता भवन्ति? इत्यत आह, “असंखेन्जे त्यादि, पुद्गलपरावर्त्तलक्षणं सामान्येन पुनरिदम्, दशभिः कोटीकोटीभिरद्धापल्योपमानामेकं सागरोपमम्, दशभिः सागरोपमकोटीकोटीभिरवसर्पिणी, उत्सर्पिण्यप्येवमेव, ता अवसर्पिण्युत्सर्पिण्योऽनन्ताः पुद्गलपरावर्तः, एतद्विशेषलक्षणं त्विहैव वक्ष्यतीति, पुद्गलपरावर्तानामेवासङ्ख्यातत्वनियमनायाह, आवलिए इत्यादि, असङ्ख्यातसमयसमुदायश्चावलिकेति / कालान्तरा // 676 //