________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-२ // 675 // समयाधिकानि, देशबन्धान्तरं जघन्यमेकः समय उत्कृष्टं तु त्रयः समयाः, एवं वायुवर्जानां तेजः प्रभृतीनामपि, नवरमुत्कृष्टं सर्वबन्धान्तरं स्वकीया स्थितिः समयाधिका वाच्या॥अथातिदेशे वायुकायिकवर्जानामित्यनेनातिदिष्टबन्धान्तरेभ्यो वायुबन्धान्तरस्य विलक्षणता सूचितेति वायुबन्धान्तरं भेदेनाह वाउक्काइयाण मित्यादि, तत्र च वायुकायिकानामुत्कर्षण देशबन्धान्तरमन्तर्मुहूर्त्तम्, कथं?, वायुरौदारिकशरीरस्य देशबन्धकः सन् वैक्रियबन्धमन्तर्मुहूर्त कृत्वा पुनरौदारिकसर्वबन्धसमयानन्तरमौदारिकदेशबन्धं यदा करोति तदा यथोक्तमन्तरं भवतीति // 37 पंचिंदिये त्यादि, तत्र सर्वबन्धान्तरं जघन्यं भावितमेवोत्कृष्टं तु भाव्यते, पञ्चेन्द्रियतिर्यङ् अविग्रहेणोत्पन्नः प्रथम एव च समये सर्वबन्धकस्ततः समयोनां पूर्वकोटिं जीवित्वा विग्रहगत्या त्रिसमयया तेष्वेवोत्पन्नस्तत्र च द्वावनाहारकसमयौ तृतीये च समये सर्वबन्धकः संपन्नः, अनाहारकसमययोश्चैकः समयोनायां पूर्वकोट्यां क्षिप्तस्तत्पूरणार्थमेकस्त्वधिक इत्येवं यथोक्तमन्तरं भवतीति, देशबन्धान्तरं तु यथैकेन्द्रियाणाम्, तच्चैवम्, जघन्यमेकः समयः, कथं?, देशबन्धको मृतः सर्वबन्धसमयानन्तरं देशबन्धको जात इत्येवम्, उत्कर्षेण त्वन्तर्मुहर्त्तम्?, कथं?, औदारिकशरीरी देशबन्धकः सन् वैक्रियं प्रतिपन्नस्तत्रान्तर्मुहूर्त स्थित्वा पुनरौदारिकशरीरी जातस्तत्र च प्रथमसमये सर्वबन्धको द्वितीयादिषु तु देशबन्धक इत्येवं देशबन्धयोरन्तर्मुहूर्तमन्तरमिति, एवं मनुष्याणामपीति, एतदेवाह जहा पंचिंदिए इत्यादि॥३८ औदारिकबन्धान्तरं प्रकारान्तरेणाह जीवेत्यादि, एकेन्द्रियत्वे नोएगिदियत्तेत्ति द्वीन्द्रियत्वादौ पुनरेकेन्द्रियत्वेसति यत्सर्वबन्धान्तरंतज्जघन्येन द्वेक्षुल्लकभवग्रहणे त्रिसमयोने, कथम्? एकेन्द्रियस्त्रिसमयया विग्रहगत्योत्पन्नस्तत्र चसमयद्वयमनाहारको भूत्वा तृतीयसमये सर्वबन्धं कृत्वा तदूनं क्षुल्लकभवग्रहणे जीवित्वा मृतोऽनेकेन्द्रियेषु क्षुल्लकभवग्रहणमेव जीवित्वा मृतः सन्नविग्रहेण पुनरेकेन्द्रियेष्वेवोत्पद्य सर्वबन्धको जातः, एवं च सर्वबन्धयोरुक्तमन्तरं जातमिति, 8 शतके उद्देशक: 9 प्रयोगबन्धाघधिकारः। सूत्रम् 348 शरीरप्रयोगबन्दस्यौदारिकादि एकेन्द्रियौ० आदिभेदप्रभेद तस्य| देशादिबन्ध कालान्तरादिप्रश्नाः। // 675 //