________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-२ // 674 // समयद्वयमनाहारकस्तृतीयेच समये सर्वन्धकस्ततः क्षुल्लकंभवग्रहणं त्रिसमयोनं स्थित्वामृतोऽविग्रहेण च यदोत्पद्य सर्वबन्धक एव भवति तदा सर्वबन्धयोर्यथोक्तमन्तरं भवतीति / उक्कोसेण मित्यादि, उत्कृष्टतः सर्वबन्धान्तरं द्वाविंशतिर्वर्षसहस्राणि समयाधिकानि भवन्ति, कथम्?, अविग्रहेण पृथिवीकायिकेष्वागतः प्रथम एव च समये सर्वबन्धकस्ततो द्वाविंशतिर्वर्षसहस्राणि स्थित्वा समयोनानि विग्रहगत्या त्रिसमययाऽन्येषु पृथिव्यादिषूत्पन्नस्तत्र च समयद्वयमनाहारको भूत्वा तृतीयसमये सर्वबन्धकः संपन्नः, अनाहारकसमययोश्चैको द्वाविंशतिवर्षसहस्रेषु समयोनेषु क्षिप्तस्तत्पूरणार्थम्, ततश्चद्वाविंशतिवर्षसहस्राणि समयश्चैकेन्द्रियाणांसर्वबन्धयोरुत्कृष्टमन्तरं भवतीति / देसबंधंतर मित्यादि तत्रैकेन्द्रियौदारिकदेशबन्धान्तरंजघन्येनैकंसमयम्, कथं?, देशबन्धको मृतः सन्नविग्रहेण सर्वबन्धको भूत्वैकस्मिन् समये पुनर्देशबन्धक एव जातः, एवं च देशबन्धयोर्जघन्यत एकः समयोऽन्तरं भवतीति, उक्कोसेणं अंतोमुहुत्तं ति, कथं?, वायुरौदारिकशरीरस्य देशबन्धकः सन् वैक्रियं गतस्तत्र चान्तर्मुहूर्त स्थित्वा पुनरौदारिकशरीरस्य सर्वबन्धको भूत्वा देशबन्धक एव जातः, एवं च देशबन्धयोरुत्कर्षतोऽन्तर्मुहूर्तमन्तरमिति॥ 36 पुढविकाइए इत्यादि, देसबंधंतरं जहन्नेणं एक्कं समयं उक्कोसेणं तिन्नि समय त्ति, कथं?, पृथिवीकायिको देशबन्धको मृतः सन्नविग्रहगत्या पृथिवीकायिकेष्वेवोत्पन्न एकं समयं च सर्वबन्धको भूत्वा पुनर्देशबन्धकोजात एवमेकसमयो देशबन्धयोजघन्येनान्तरम्, तथा पृथिवीकायिको देशबन्धको मृतः सन् त्रिसमयविग्रहेण तेष्वेवोत्पन्नस्तत्र च समयद्वयमनाहारकः तृतीयसमये च सर्वबन्धको भूत्वा पुनर्देशबन्धको जातः, एवं च त्रयः समया उत्कर्षतो देशबन्धयोरन्तरमिति / अथाप्कायिकादीनां बन्धान्तरमतिदेशत आह जहा पुढविकाइयाण मित्यादि, अत्रैव च सर्वथा समतापरिहारार्थमाह नवर मित्यादि, एवं चातिदेशतो यल्लब्धं तद्दय॑ते, अप्कायिकानां जघन्यं सर्वबन्धान्तरं क्षुल्लकभवग्रहणं त्रिसमयोनमुत्कृष्टं तु सप्त वर्षसहस्राणि 8 शतके | उद्देशक:९ प्रयोगबन्धा|घधिकारः। |सूत्रम् 348 शरीरप्रयोग| बन्दस्यौदा| रिकादि एकेन्द्रियौ० आदिभेदप्रभेद तस्यदेशादिबन्ध कालान्तरादिप्रश्नाः / // 674 //