SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 670 // शरीरिबन्ध इत्यत्र तु पक्षे तेयाकम्माणं बंधे समुप्पज्जइ त्ति तैजसकार्मणाश्रयभूतत्वात्तैजसकार्मणाः शरीरिप्रदेशास्तेषां बन्धः 8 शतके उद्देशक:९ समुत्पद्यत इति व्याख्येयम्, 25 वीरियसजोगसद्दव्वयाए त्ति वीर्य वीर्यान्तरायक्षयादिकृता शक्तिः, योगा मनःप्रभृतयः, सह प्रयोगबन्धायोगैर्वर्तत इति सयोगः, सन्ति विद्यमानानि द्रव्याणि तथाविधपुद्गला यस्य जीवस्यासौ सद्व्यः, वीर्यप्रधानः सयोगो अधिकारः। सूत्रम् 347 वीर्यसयोगःसचासौसद्रव्यश्चेति विग्रहस्तद्भावस्तत्ता तया वीर्यसयोगसव्यतया, सवीर्यतया सयोगतया सद्रव्यतया जीवस्य, देशसंहननतथा पमायपच्चय त्ति प्रमादप्रत्ययात् प्रमादलक्षणकारणात्, तथा कम्मं च त्ति कर्म चैकेन्द्रियजात्यादिकमुदयवर्ति, जोगं च सर्वसंहनाऽऽ लीनप्रयोगत्ति योगच, काययोगादिकम्, भवंचत्ति भवच, तिर्यग्भवादिकमनुभूयमानम्, आउयंचत्ति, आयुष्कंच तिर्यगायुष्काद्युदयवर्ति बन्ध प्रश्नाः। पडुच्च त्ति प्रतीत्याश्रित्य, ओरालिए त्यादि, औदारिकशरीरप्रयोगसम्पादकं यन्नाम तदौदारिकशरीरप्रयोगनाम तस्य कर्मण शरीरबन्धस्य | पूर्वप्रयोगउदयेनौदारिकशरीरप्रयोगबन्धो भवतीति शेषः, एतानिच वीर्यसयोगसहव्यतादीनि पदान्यौदारिकशरीरप्रयोगनामकर्मोदयस्य प्रत्युत्पन्नविशेषणतया व्याख्येयानि, वीर्यसयोगसहव्यतया हेतुभूतया यो विवक्षितकर्मोदयस्तेनेत्यादिना प्रकारेण, स्वतन्त्राणि प्रयोगप्रश्नाः वैतान्यौदारिकशरीरप्रयोगबन्धस्य कारणानि, तत्र च पक्षे यदौदारिकशरीरप्रयोगबन्धः कस्य कर्मण उदयेन? इति पृष्टेज यदन्यान्यपिकारणान्यभिधीयन्तेतद्विवक्षितकर्मोदयोऽभिहितान्येव सहकारिकारणान्यपेक्ष्येह कारणतयाऽवसेय इत्यस्यार्थस्य ज्ञापनार्थमिति // 26 एगिदिए इत्यादौ, एवं चेव त्ति, अनेनाधिकृतसूत्रस्य पूर्वसूत्रसमताभिधानेऽपि ओरालियसरीरप्पओगनामाए इत्यत्र पद 29-30 एगिदियओरालियसरीरप्पओगनामाए इत्ययं विशेषोदृश्यः, एकेन्द्रियौदारिकशरीरप्रयोगबन्धस्येहाधिकृतत्वात..॥६७०॥ एवमुत्तरत्रापि वाच्यमिति / / देसबंधेऽवि सव्वबंधेऽवि त्ति तत्र यथाऽपूपः स्नेहभृततप्ततापिकायां प्रक्षिप्तः प्रथमसमये घृतादि गृह्णात्येव शेषेषु तु समयेषु गृह्णाति विसृजति च, एवमयं जीवो यदा प्राक्तनं शरीरकं विहायान्यद्गृह्णाति तदा प्रथमसमय दृष्टान्ताक्ष।
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy