SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ८शतके श्रीअभय वृत्तियुतम् भाग-२ // 669 // परिवेषणभाजनम्, आसनशयनस्तम्भाः प्रतीताः, भंड त्ति मृन्मयभाजनम्, मत्त त्ति, अमत्रं भाजनविशेषः, उवगरण त्ति। नानाप्रकारं तदन्योपकरणमिति // 19 पुव्वप्पओगपच्चइए यत्ति पूर्वः प्राक्कालासेवितः प्रयोगो जीवव्यापारो वेदनाकषायादि प्रयोगबन्धासमुद्धातरूपः प्रत्ययः कारणं यत्र शरीरबन्धेस तथा स एव पूर्वप्रयोगप्रत्ययिकः, पच्चुप्पन्नपओगपच्चइए यत्ति प्रत्युत्पन्नोऽप्राप्तपूर्वो घधिकारः। वर्तमान इत्यर्थः प्रयोगः केवलिसमुद्धातलक्षणव्यापारः प्रत्ययो यत्र स तथा स एव प्रत्युत्पन्नप्रयोगप्रत्ययिकः / 20 नेरइयाईण सूत्रम् 347 | देशसंहननमित्यादि, तत्थ तत्थ त्ति, अनेन समुद्धातकरणक्षेत्राणां बाहुल्यमाह, तेसु तेसु त्ति, अनेन समुद्धातकारणानां वेदनादीनां सर्वसंहनाबाहुल्यमुक्तम्, समोहणमाणाणं ति समुद्धन्यमानानां समुद्धातं शरीराबहिर्जीवप्रदेशप्रक्षेपलक्षणं गच्छताम्, जीवपएसाणंति, इहल लीनप्रयोग बन्ध प्रश्नाः / जीवप्रदेशानामित्युक्तावपिशरीरबन्धाधिकारात्तात्स्थ्यात्तव्यपदेश इति न्यायेन जीवप्रदेशाश्रिततैजसकार्मणशरीरप्रदेशाना- शरीरबन्धस्य पूर्वप्रयोगमिति द्रष्टव्यम्, शरीरिबन्ध इत्यत्र तुपक्षेसमुद्धातेन विक्षिप्य सङ्कोचितानामुपसर्जनीकृततैजसादिशरीरप्रदेशानांजीवप्रदेशानामेवेति बंधे त्ति रचनादिविशेषः, 21 जन्नं केवले त्यादि, केवलिसमुद्धातेन दण्ड 1 कपाट 2 मथिकरणा ३न्तरपूरण 4 लक्षणेन समुपहतस्य विस्तारितजीवप्रदेशस्य, ततः समुद्धातात् प्रतिनिवर्तमानस्य प्रदेशान् संहरतः, समुद्धातप्रतिनिवर्तमानत्वं च पञ्चमादिष्वनेकेषु समयेषु स्यादित्यतो विशेषमाह, अंतरामथे वट्टमाणस्स त्ति निवर्तनक्रियाया अन्तरेमध्येऽवस्थितस्य पञ्चमसमव इत्यर्थः, यद्यपि च षष्ठादिसमयेषु तैजसादिशरीरसातः समुत्पद्यते तथाऽप्यभूतपूर्वतया पञ्चमसमय एवासौ भवति शेषेषुतु भूतपूर्वयैवेतिकृत्वाऽतरामथे वट्टमाणस्से त्युक्तमिति, तेयाकम्माणं बंधे समुप्पज्जइ त्ति तैजसकार्मणयोः शरीरयोर्बन्धः सङ्घातः, समुत्पद्यते, किं कारणं कुतो हेतोः?, उच्यते ताहे त्ति तदा समुद्धातनिवृत्तिकाले से त्ति तस्य केवलिनः प्रदेशा जीव प्रदेशाः, एगत्तीगय त्ति, एकत्वं गताः संघातमापन्ना भवन्ति, तदनुवृत्त्या च तैजसादिशरीरप्रदेशानां बन्धः समुत्पद्यत इति प्रकृतम्, प्रत्यत्पन्नप्रयोगप्रश्ना: साधा II EE
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy