SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 668 // आलापनादि, श्रेषणाली शरीरिणः समुद्धाते विक्षिप्तजीवप्रदेशानां सङ्कोचने यो बन्धः स शरीरिबन्ध इति, सरीरप्पओगबंधे त्ति शरीरस्यौदारिकादेर्यः 8 शतके प्रयोगेण वीर्यान्तरायक्षयोपशमादिजनितव्यापारेण बन्धः तत्पुद्गलोपादानं शरीररूपस्य वा प्रयोगस्य यो बन्धः सशरीरप्रयोग उद्देशक:९ प्रयोगबन्धाबन्धः।।११ तणभाराण व त्ति तृणभारास्तृणभारकास्तेषां वेत्ते त्यादिवेत्रलता जलवंशकम्बा, वाग त्ति वल्कः, वरत्रा चर्ममयी, धधिकारः। सूत्रम् 347 रज्जुः सनादिमयी, वल्ली त्रपुष्यादिका, कुशा निर्मूलदर्भाः दर्भास्तु समूलाः, आदिशब्दाच्चीवरादिग्रहः, 12 लेसणाबंधे त्ति प्रयोगश्लेषणा श्वथद्रव्येण द्रव्ययोः संबन्धनं तद्रूपो यो बन्धः स तथा, उच्चयबंधे त्ति, उच्चय ऊर्द्ध चयनं राशीकरणं तद्रूपो बन्ध बन्धस्य साधादि, उच्चयबन्धः, समुच्चयबंधे त्ति सङ्गत उच्चयापेक्षया विशिष्टतर उच्चयः समुच्चयः स एव बन्धः समुच्चयबन्धः, साहणणाबंधे त्ति संहननमवयवानां सङ्गातनं तद्रूपो यो बन्धः स संहननबन्धः, दीर्घत्वादि चेह प्राकृतशैलीप्रभवमिति, 13 कुट्टिमाणं तिल नादि भेदमणिभूमिकानाम्, छुहाचिक्खिल्ले त्यादौ सिलेस त्ति श्लेषोवज्रलेपः, लक्ख त्ति जतु, महुसित्थ त्ति मदनम्, आदिशब्दागुग्गुलराला प्रभेदप्रश्नाः / खल्यादिग्रह, 14 अवगररासीण व त्ति कचवरराशीनामुच्चएणं ति, ऊर्द्ध चयनेन, 15 अगडतलागनई त्यादि प्रायः प्राग् व्याख्यातमेव, 16 देससाहणणाबंधे यत्ति देशेन देशस्य संहननलक्षणो बन्धः सम्बन्धः शकटाङ्गादीनामिवेति देशसंहननबन्धः, सव्वसाहणणाबंधे य त्ति सर्वेण सर्वस्य संहननलक्षणो बन्धः सम्बन्धः क्षीरनीरादीनामिवेति सर्वसंहननबन्धः 17 जन्नं सगडरहे त्यादि, शकटादीनि च पदानि प्राग् व्याख्यातान्यपि शिष्यहिताय पुनर्व्याख्यायन्ते तत्र च सगड त्ति गन्त्री, रह त्ति स्यन्दनः, जाण त्ति यानं लघुगन्त्री, जुग्ग त्ति युग्यं गोल्लविषयप्रसिद्धं द्विहस्तप्रमाणं वेदिकोपशोभितं जम्पानम्, गिल्लि त्ति हस्तिन उपरि कोल्लरं यन्मानुषं गिलतीव, थिल्लि त्ति, अड्डपल्लाणम्, सीय त्ति शिबिका कूटाकारणाच्छादितो जम्पानविशेषः, संदमाणिय त्ति पुरुषप्रमाणो जम्पानविशेषः, लोहि त्ति मण्डकादिपचनभाजनम्, लोहकडाहे ति भाजनविशेष एव, कडुच्छुय त्ति // 668
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy