SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ | // 655 // परीषहो जुगुप्सामोहनीये लज्जापेक्षया, स्त्रीपरीषहः पुरुषवेदमोहे स्त्र्यपेक्षया तु पुरुषपरीषहः स्त्रीवेदमोहे, तत्त्वतः स्त्र्याधभिलाषरूपत्वात्तस्य, नैषेधिकीपरीषहो भयमोह उपसर्गभयापेक्षया, याचापरीषहो मानमोहे तद्दुष्करत्वापेक्षया, आक्रोशपरीषहः क्रोधमोहे क्रोधोत्पत्त्यपेक्षया, सत्कारपुरस्कारपरीषहो मानमोहे मदोत्पत्त्यपेक्षया समवतरति, सामान्यतस्तु सर्वेऽप्येते चारित्रमोहनीये समवतरन्तीति // 29 एगे अलाभपरीसहे समोयरति त्ति, अलाभपरीषह एवान्तराये समवतरति, अन्तरायं चेह लाभान्तरायम्, तदुदय एव लाभाभावात्, तदधिसहनं च चारित्रमोहनीयक्षयोपशम इति // 30 अथ बन्धस्थानान्याश्रित्य परीषहान् विचारयन्नाह सत्तविहे त्यादि, सप्तविधबन्धक आयुर्वर्जशेषकर्मबन्धकः जं समयं सीयपरीसह मित्यादि,यत्र समये शीतपरीषहं वेदयते न तत्रोष्णपरीसहं शीतोष्णयोः परस्परमत्यन्तविरोधेनैकदैकत्रासम्भवात्, अथ यद्यपि शीतोष्णयोरेकदैकत्रासम्भवस्तथाऽप्यात्यन्तिके शीते तथाविधाग्निसन्निधौ युगपदेवैकस्य पुंस एकस्यां दिशि शीतमन्यस्यां चोष्णमित्येवं द्वयोरपिशीतोष्णपरीषहयोरस्ति सम्भवः, नैतदेवम्, कालकृतशीतोष्णाश्रयत्वादधिकृतसूत्रस्यैवंविधव्यतिकरस्य वा प्रायेण तपस्विनामभावादिति / तथा जंसमयं चरियापरीसह मित्यादि तत्र चर्या ग्रामादिषु संचरणं नैषेधिकीच ग्रामादिषु प्रतिपन्नमासकल्पादेः स्वाध्यायादिनिमित्तंशय्यातो विविक्ततरोपाश्रये गत्वा निषदनम्, एवं चानयोर्विहारावस्थानरूपत्वेन परस्परविरोधानकदासम्भवः, अथ नैषेधिकीवच्छय्याऽपिचर्ययासह विरुद्धेतिन तयोरेकदासम्भवस्ततैश्चकोनविंशतेरेव परीषहाणामुत्कर्षे*कदा वेदनं प्राप्तमिति, नैवम्, यतोग्रामादिगमनप्रवृत्तौ यदा कश्चिदौत्सुक्यादनिवृत्तत्परिणाम एव विश्रामभोजनाद्यर्थमित्वरशय्यायां वर्त्तते तदोभयमप्यविरुद्धमेव, तत्त्वतश्चर्याया असमाप्तत्वादाश्रयस्य चाश्रयणादिति, यद्येवंतर्हि कथं षडिधबन्धकमाश्रित्य वक्ष्यति समयं चरियापरीसहं वेएति नो तं समयं सेज्जापरीसहं वेएईत्यादिति?, अत्रोच्यते, षड्रिधबन्धको मोहनीयस्या 8 शतके उद्देशक:८ गुरुप्रत्यनीकाघधिकारः। सूत्रम् 343 कर्मप्रकृतिपरिषहभेद प्रश्नाः / परिषहानां प्रत्येककर्मप्रकृतिषु समावतारः, एकविधादिबन्धकस्य परिषह प्रश्ना : / // 655 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy