________________ श्रीभगवत्यङ्ग श्रीअभयवृत्तियुतम् भाग-२ // 651 // 8 शतके उद्देशक:८ गुरुप्रत्यनीकाघधिकारः। सूत्रम् 342 नैरयिकादिसाम्परायिककर्मबन्धस्वामि तद्भङ्गप्रश्नाः। तेषांबहूनामपि सम्भवात्, अपगतवेदश्चसाम्परायिकबन्धको वेदत्रय उपशान्ते क्षीणेवा यावद्यथाख्यातं न प्राप्नोति तावल्लभ्यत इति, इह च पूर्वप्रतिपन्नप्रतिपद्यमानकविवक्षा न कृता, द्वयोरप्येकत्वबहुत्वयोर्भावेन निर्विशेषत्वात्, तथाहि, अपगतवेदत्वे साम्परायिकबन्धोऽल्पकालीन एव, तत्र च योऽपगतवेदत्वं प्रतिपन्नपूर्वः साम्परायिकं बध्नात्यसावेकोऽनेको वा स्यात्, एवं प्रतिपद्यमानकोऽपीति // 19 अथ साम्परायिककर्मबन्धमेव कालत्रयेण विकल्पयन्नाह तं भंते! कि मित्यादि, इह च पूर्वोक्तेष्वष्टासु विकल्पेष्वाद्याश्चत्वार एव संभवन्ति नेतरे, जीवानां साम्परायिककर्मबन्धस्यानादित्वेन न बंधी त्यस्यानुपपद्यमानत्वात्, तत्र प्रथमः सर्व एव संसारी यथाख्यातासंप्राप्तोपशमकक्षपकावसानः, स हि पूर्वं बद्धवान् वर्तमानकाले तु बध्नात्यनागतकालापेक्षया तु भन्त्स्यति 1, द्वितीयस्तु मोहक्षयात्पूर्वमतीतकालापेक्षया बद्धवान् वर्तमानकाले तु बध्नाति भाविमोहक्षयापेक्षया तु न भन्त्स्यति 2, तृतीयः पुनरुपशान्तमोहत्वात् पूर्वं बद्धवानुपशान्तमोहत्वे न बध्नाति तस्माच्च्युतः पुनर्भन्त्स्यतीति 3, चतुर्थस्तु मोहक्षयात्पूर्वं साम्परायिकं कर्म बद्धवान् मोहक्षये न बध्नाति न च भन्त्स्यतीति / 20 साम्परायिककर्मबन्धमेवाश्रित्याह त मित्यादि, साइयं वा सपज्जवसियं बंधइ त्ति, उपशान्तमोहतायाश्च्युतः पुनरुपशान्तमोहतां क्षीणमोहतां वा प्रतिपत्स्यमानः, अणाइयं वा सपज्जवसियं बंधइ त्ति, आदितः क्षपकापेक्षमिदम्, अणाइयं वा अपज्जवसियं बंधइ त्ति, एतच्चाभव्यापेक्षम्, नो चेवणं साइयं अपज्जवसियं बंधइ त्ति, सादिसाम्परायिकबन्धो हि मोहोपशमाच्च्युतस्यैव भवति, तस्य चावश्यं मोक्षयायित्वात्साम्परायिकबन्धस्य व्यवच्छेदसम्भवः, ततश्चन सादिरपर्यवसानः साम्परायिकबन्धोऽस्तीति॥ 342 // अनन्तरं कर्मवक्तव्यतोक्ता, अथ कर्मस्वेव यथायोगं परीषहावतारं निरूपयितुमिच्छुः कर्मप्रकृतीः परीषहांश्च तावदाह // 651