SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभयवृत्तियुतम् भाग-२ // 645 // गीतार्थसंविग्नेन द्रव्याद्यपेक्षया यत्रापराधे यथा या विशुद्धिः कृता तामवधार्य यद(यदन्यस्तत्रैव?)गुप्तमेवालोचनदानतस्तत्रैव तथैव तामेव प्रयुक्त इति वैयावृत्त्यकरादेर्वा गच्छोपग्रहकारिणोऽशेषानुचितस्य प्रायश्चित्तपदानां प्रदर्शितानां धरणमिति, तथा जीतं द्रव्यक्षेत्रकालभावपुरुषप्रतिसेवानुवृत्त्या संहननधृत्यादिपरिहाणिमवेक्ष्य यत् प्रायश्चित्तदानं यो वा यत्र गच्छे सूत्रातिरिक्तः कारणतः प्रायश्चित्तव्यवहारः प्रवर्तितो बहुभिरन्यैश्चानुवर्तित इति / आगमादीनां व्यापारण उत्सर्गापवादावाह जहे त्यादि, यथेति यथाप्रकारः केवलादीनामन्यतमः, सेतस्य व्यवहर्तुः सचोक्तलक्षणो व्यवहारः, तत्र तेषु पञ्चसु व्यवहारेषु मध्ये तस्मिन् वा प्रायश्चित्तदानादिव्यवहारकाले व्यवहर्त्तव्ये वा वस्तुनि विषये, आगमः केवलादिः स्याद्भवेत्तादृशेनेति शेषः, आगमेन व्यवहारं प्रायश्चित्तदानादिकं प्रस्थापयेत् प्रवर्त्तयेन्न शेषैः, आगमेऽपि षड्विधे केवलेनावन्ध्यबोधत्वात्तस्य, तदभावे मनःपर्यायेण, एवं प्रधानतराभाव इतरेणेति / अथ नो नैव चशब्दो यदिशब्दार्थः, से तस्य स वा तत्र व्यवहर्त्तव्यादावागमः स्यात्, यथा यत्प्रकार से तस्य तत्र व्यवहर्त्तव्यादौ श्रुतं स्यात्तादृशेन श्रुतेन व्यवहारं प्रस्थापयेदिति, इच्चेएहि मित्यादि निगमन सामान्येन, जहा जहा स इत्यादि तु विशेषनिगमनमिति // 8 एतैर्व्यवहर्तुः फलं प्रश्नद्वारेणाह से कि मित्यादि, अथ किं हे भदन्त! भट्टारक, आहुः प्रतिपादयन्ति? ये(के?) आगमबलिका उक्तज्ञानविशेषबलवन्तः श्रमणा निर्ग्रन्थाः केवलिप्रभृतयः, इच्चेयंति, इत्येतद्वक्ष्यमाणम्, अथवेत्येवमिति, एवं प्रत्यक्षं पञ्चविधं व्यवहारं प्रायश्चित्तदानादिरूपं सम्मं ववहरमाणे त्ति संबध्यते, व्यवहरन् प्रवर्तयन्नित्यर्थः, कथं? सम्मंत्ति सम्यक्, तदेव कथम्? इत्याह यदा 2 यस्मिन् 2 अवसरे यत्र 2 प्रयोजनेवा क्षेत्रे वा यो य उचितस्तं तमिति शेषः तदा 2 काले तस्मिन् 2 प्रयोजनादौ, कथम्भूतम्? इत्याह, अनिश्रितैः सर्वाशंसारहितैः, उपाश्रितोऽङ्गीकृतः, अनिश्रितोपाश्रितस्तम्, अथवा निश्रितश्च शिष्यत्वादि प्रतिपन्न उपाश्रितश्च स एव वैयावृत्त्यकरत्वादिना ८शतके उद्देशक:८ गुरुप्रत्यनीकाघधिकारः। सूत्रम् 340 आगमश्रुताऽऽज्ञाधारणाजीतेति पञ्चव्यवहारस्तत्फलप्रश्नाः। सूत्रम् 341 ऐपिथिकसाम्परायिक द्विविधबन्धप्रश्नः / नैरयिकादीनां बन्धः / वेदापेक्षकालापेक्षसादिसपर्यवसितादि तद्भङ्गकप्रश्नाः। // 645 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy