SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 640 // 21 गइप्पवायं ति गतिः प्रोद्यते प्ररूप्यते यत्र तद्गतिप्रवादं गतेर्वा प्रवृत्तेः क्रियायाः प्रपातः प्रपतनसम्भवः प्रयोगादिष्वर्थेषु वर्त्तनं गतिप्रपातस्तत्प्रतिपादकमध्ययनं गतिप्रपातं तत् प्रज्ञापितवन्तो गतिविचारप्रस्तावादिति // 337 // 22 अथ गतिप्रपातमेव भेदतोऽभिधातुमाह कइविहे ण मित्यादि, पओगगति त्ति, इह गतिप्रपातभेदप्रक्रमे यद्गतिभेद भणनं तद्गतिधर्मत्वात् प्रपातस्य गतिभेदभणने गतिप्रपातभेदा एव भणिता भवन्तीति न्यायादवसेयम्, तत्र प्रयोगस्य सत्यमनःप्रभृतिकस्य पञ्चदशविधस्य गतिः प्रवृत्तिः प्रयोगगतिः, ततगइत्ति ततस्य ग्रामनगरादिकं गन्तुंप्रवृत्तत्वेन तच्चाप्राप्तत्वेन तदन्तरालपथे वर्तमानतया प्रसारितक्रमतया च विस्तारं गतस्य गतिस्ततगतिः, ततो वाऽवधिभूतग्रामादेर्नगरादौ गतिः प्राकृतत्वेन ततगई, अस्मिंश्चस्थान इतः सूत्रादारभ्य प्रज्ञापनायां षोडशं (प्रज्ञा०पद-१६५०३२५-२)प्रयोगपदं सेत्तं विहायगई, एतत्सूत्रं यावद्वाच्यमेतदेवाह, एत्तवित्यादि, तच्चैवं बंधणछेयणगई उववायगई विहायगई त्यादि, तत्र बन्धनच्छेदनगतिः, बन्धनस्य कर्मणः सम्बन्धस्य वा छेदनेऽभावे गतिर्जीवस्य शरीराच्छरीरस्य वा जीवाइन्धनच्छेदनगतिः, उपपातगतिस्तु त्रिविधा क्षेत्रभवनोभवभेदात्, तत्र नारकतिर्यग्नरदेवसिद्धानांयत् क्षेत्र उपपाताय, उत्पादाय गमनं सा क्षेत्रोपपातगतिः, याच नारकादीनामेव स्वभव उपपातरूपा गतिःसाभवोपपातगतिः, यच्च सिद्धपुद्गलयोर्गमनमानंसानोभवोपपातगतिः, विहायोगतिस्तुस्पृशद्गत्यादिकाऽनेकविधेति॥ ३३८॥अष्टमे शते सप्तमः॥८-७॥ ॥अष्टमशतकेऽष्टमोद्देशकः॥ अनन्तरोद्देशके स्थविरान्प्रत्यन्ययूथिकाः प्रत्यनीका उक्ता अष्टमे तु गुर्वादिप्रत्यनीका उच्यन्ते, इत्येवंसम्बन्धस्यास्येदं 8 शतके उद्देशक:७ अदत्तादानाधिकारः। सूत्रम् 337 अन्यतीर्थिकस्थविरसंवादप्रश्नाः / अदत्तग्रहणदत्तग्रहणैकान्तबालपण्डितादि परस्परसंवादप्रश्नाः / सूत्रम् 338 गतिप्रपातभेदप्रश्नाः / उद्देशकः८ // 640 // सूत्रम्,
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy