SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 639 // वर्तमानकालत्वाद्दत्तस्य चातीतकालवर्त्तित्वाद्वर्त्तमानातीतयोश्चात्यन्तभिन्नत्वाद्दीयमानं दत्तं न भवति दत्तमेव दत्तमिति व्यपदिश्यते, एवं प्रतिगृह्यमाणादावपि, तत्र दीयमानं दायकापेक्षया प्रतिगृह्यमाणं ग्राहकापेक्षया निसृज्यमानं क्षिप्यमाणं पात्रापेक्षयेति, अंतरे त्ति, अवसरे, अयमभिप्रायः, यदि दीयमानं पात्रेऽपतितं सद्दतं भवति तदा तस्य दत्तस्य सतः पात्रपतनलक्षणं ग्रहणं कृतं भवति, यदा तु तद्दीयमानमदत्तं तदा पात्रपतनलक्षणं ग्रहणमदत्तस्येति प्राप्तमिति, 7 निर्ग्रन्थोत्तरवाक्ये तु, अम्हे णं अजो! दिज्जमाणे दिन्न इत्यादि यदुक्तं तत्र क्रियाकालनिष्ठाकालयोरभेदाद्दीयमानत्वादेर्दत्तत्वादि समवसेयमिति / 9 अथ दीयमानमदत्तमित्यादेर्भवन्मतत्वाधूयमेवासंयतत्वादिगुणा इत्यावेदनायान्ययूथिकान् प्रति स्थविराः प्राहुः तुझे णं अजो! अप्पणा चेवे त्यादि, 16 रीयं रीयमाण त्ति रीतं गमनम्, रीयमाणा गच्छन्तो गमनं कुर्वाणा इत्यर्थः, पुढविं पेच्चेह पृथिवीमाक्रामथेत्यर्थः, अभिहणह त्ति पादाभ्यामाभिमुख्येन हथ, वत्तेह त्ति पादाभिघातेनैव वर्तयथ श्लक्ष्णतां नयथ लेसेह त्ति श्लेषयथ भूम्यांश्लिष्टां कुरुथ संघाएह त्ति सङ्घातयथसंहतां कुरुथ, संघट्टेह त्तिसङ्घट्टयथस्पृशथ, परितावेह त्ति परितापयथ समन्ताज्जातसन्तापांकुरुथ, किलामेह त्तिक्लमयथ मारणान्तिकसमुद्धातं गमयथेत्यर्थः, उवद्दवेह त्ति, उपद्रवयथ मारयथेत्यर्थः 17 कायं व त्ति कायं शरीरं प्रतीत्योच्चारादिकायकार्यमित्यर्थः, जोग व त्ति योगं ग्लानवैयावृत्त्यादिव्यापारं प्रतीत्य रियं वा पडुच्च त्ति, ऋतं सत्यं प्रतीत्य, अप्कायादिजीवसंरक्षणं संयममाश्रित्येत्यर्थः, देसं देसेणं वयामो त्ति प्रभूतायाः पृथिव्या ये विवक्षिता देशास्तैव्रजामो नाविशेषेण, ईर्यासमितिपरायणत्वेन सचेतनदेशपरिहारतोऽचेतनदेशैव॑जाम इत्यर्थः, एवं पएस पएसेणं वयामवित्यपि, नवरं देशोभूमेर्महत्खण्डं प्रदेशस्तु लघुतरमिति ॥अथोक्तगुणयोगेन नास्माकमिवैषांगमनमस्तीत्यभिप्रायतः स्थविरा यूयमेव पृथिव्याक्रमणादितोऽसंयतत्वादिगुणा इति प्रतिपादनायान्ययूथिकान् प्रत्याहुः, तुझेणं अज्जवित्यादि 8 शतके उद्देशक: 7 अदत्तादानाधिकारः। सूत्रम् 337 अन्यतीर्थिकस्थविरसंवादप्रश्नाः / अदत्तग्रहणदत्तग्रहणैकान्तबालपण्डितादि परस्परसंवादप्रश्नाः / सूत्रम् 338 गतिप्रपातभेदप्रश्नाः /
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy