________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 624 // कारापणमनुमतिश्च / यथा वाक्तनुयोगाभ्यां करणादि तथा मनसा भवेत्॥१॥ तदधीनत्वाद्वाक्तनुकरणादीनामथवा मनः करणं सावधयोगमननं प्रज्ञप्तं वीतरागैः // 2 // मनसा पुनः कारा(प?)णमेष सावधं करोत्विति चिन्तयति कृते पुनः सुष्टु कृ तमित्यनुमतिर्भवति चिन्तयति॥३॥)९ इह च पञ्चस्वणुव्रतेषु प्रत्येकं सप्तचत्वारिंशदधिकस्य भङ्गशतस्य भावाद्भङ्गकानां सप्त शतानि पञ्चत्रिंशदधिकानि भवन्तीति ॥यत स्थविरा आजीविकैः श्रमणोपासकगतं वस्तु पृष्टाः गौतमेन च भगवांस्तत्तावदुक्तम्, अथानन्तरोक्तशीलाः श्रमणोपासका एव भवन्ति न पुनराजीविकोपासका आजीविकानां गुणित्वेनाभिमता अपीति दर्शयन्नाह एए खल्वित्यादि, एते खल्वेत एव परिदृश्यमाना निर्ग्रन्थसत्का इत्यर्थः एरिसग त्ति, ईदृशकाः प्राणातिपातादिष्वतीतप्रतिक्रमणादिमन्तः, नो खलु त्ति नैवै रिसग त्ति, उक्तरूपा उक्तार्थानामपरिज्ञानात्, आजीविओवासयत्तिगोशालकशिष्यश्रावकाः॥१० अर्थतस्यैवार्थस्य विशेषतः समर्थनार्थमाजीविकसमयार्थस्य तदुपासकविशेषस्वरूपस्य चाभिधानपूर्वकमाजीविकोपासकापेक्षया श्रमणोपासकानुत्कर्षयितुमाह, आजीविए त्यादि, आजीविकसमयोगोशालकसिद्धान्तः तस्याऽयमढे त्ति, इदमभिधेयम्, अक्खीणपरिभोइणो सव्वे सत्त त्ति, अक्षीणमक्षीणायुष्कमप्रासुकंपरिभुञ्जत इत्येवंशीला अक्षीणपरिभोगिनः, अथवा, इन्प्रत्ययस्य स्वार्थिकत्वादक्षीणपरिभोगा अनपगताहारभोगासक्तय इत्यर्थः, सर्वे सत्त्वा असंयताः सर्वे प्राणिनः, यद्येवं ततः किम्? इत्याह से हंते त्यादि, से त्ति ततः, हंत त्ति हत्वालगुडादिनाऽभ्यवहार्य प्राणिजातम्, छित्त्वाऽसिपुत्रिकादिना द्विधा कृत्वा भित्त्वा शूलादिना भिन्नं कृत्वा, लुप्त्वा पक्षादिलोपनेन, विलुप्य त्वचो विलोपनेन, अपद्राव्यविनाश्याहारमाहारयन्ति, तत्थ त्ति तत्रैवं स्थितेऽसंयतसत्त्ववर्गे हननादिदोषपरायण इत्यर्थः, आजीविकसमये वाऽधिकरणभूते द्वादशेति विशेषानुष्ठानत्वात् परिगणिता आनन्दादिश्रमणोपासकवदन्यथा बहवस्ते, ताले त्ति तालाभिधान एकः, एवंतालप्रलम्बादयोऽपि, 8 शतके | उद्देशक:५ आजीविकाधिकारः। सूत्रम् 330 द्वादशाऽऽजीवकोपासकानां पञ्चफलादिप्रत्याख्यानम्। सूत्रम् 331 देवलोकभेदप्रश्न:।