________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 625 // उद्देशकः 5 आजीविका द्वादशा प्रत्याख्यानम्। अरिहंतदेवयाग त्ति गोशालकस्य तत्कल्पनयाऽर्हत्त्वात्, पंचफलपडिक्कंत त्ति फलपञ्चकान्निवृत्ताः, उदुम्बरादीनि च पञ्च पदानि 8 शतके पञ्चमीबहुवचनान्तानि प्रतिक्रान्तशब्दानुस्मरणादिति, अनिलंछिएहिं ति, अवर्द्धितकैः, अनक्कभिन्नेहिं ति, अनस्तितैः / एतेवि ताव एवं इच्छंति, एतेऽपितावद्विशिष्टियोग्यताविकला इत्यर्थः, एवमिच्छन्ति, अमुना प्रकारेण वाञ्छन्ति धर्ममिति गम्यम्, धिकारः। किमंग पुणे त्यादि, किं पुनर्य इमे श्रमणोपासका भवन्ति ते नेच्छन्तीति गम्यम्?, इच्छन्त्येवेति, विशिष्टतरदेवगुरुप्रवचनसमाश्रि सूत्रम् 330 तत्वात्तेषाम्, कम्मादाणाई ति कर्माणि ज्ञानावरणादीन्यादीयन्ते यैस्तानि कर्मादानानि, अथवा कर्माणि च तान्यादानानि / उजीवकोच कर्मादानानि कर्महेतव इति विग्रहः, इंगाले त्यादि, अङ्गारविषयं कर्माङ्गारकर्म, अङ्गाराणां करणविक्रयस्वरूपम्, पासकानां पञ्चफलादिएवमग्निव्यापाररूपं यदन्यदपीष्टकापाकादिकं कर्म तदङ्गारकर्मोच्यते, अङ्गारशब्दस्य तदन्योपलक्षणत्वात्, वणकम्मे त्ति वनविषयं कर्मवनकर्मवनच्छेदनविक्रयरूपम्, एवं बीजपेषणाद्यपि, साडीकम्मे त्ति शकटानांवाहनघटनविक्रयादि, भाडीकम्मे सूत्रम् 331 देवलोकभेदत्ति भाट्या भाटकेन कर्म, अन्यदीयद्रव्याणां शकटादिभिर्देशान्तरनयनं गोगृहादिसमर्पणं वा भाटीकर्म फोडीकम्मे त्ति स्फोटिभूमेः स्फोटनं हलकुद्दालादिभिः, सैव कर्म स्फोटीकर्म, दंतवाणिज्जे त्ति दन्तानां हस्तिविषाणानामुपलक्षणत्वादेषां चर्मचामरपूतिकेशादीनां वाणिज्यं क्रयविक्रयो दन्तवाणिज्यम्, लक्खवाणिज्जं ति लाक्षाया आकरे ग्रहणतो विक्रयः, एतच्च ससंसक्तिनिमित्तस्यान्यस्यापि तिलादेव्यस्य यद्वाणिज्यं तस्योपलक्षणम्, केसवाणिज्जे त्ति केशवजीवानां गोमहिषीस्त्रीप्रभृतिकानां विक्रयः, रसवाणिज्जे त्ति मद्यादिरसविक्रयः, विसवाणिज्जे त्ति विषस्योपलक्षणत्वाच्छस्त्रवाणिज्यस्याप्यनेनावरोधः, जंतपीलणकम्मे त्ति यन्त्रेण तिलेश्वादीनां यत्पीडनं तदेव कर्म यन्त्रपीडनकर्म, निल्लंछणकम्मे त्ति निर्लाञ्छनमेववर्द्धितककरणमेव कर्म निर्लाञ्छनकर्म, दवग्गिदावणय त्ति दवाग्नेः, दवस्य दापनम्, दाने प्रयोजकत्वमुपलक्षणत्वाद्दानं च दवाग्निदापन |प्रश्नः /