________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 71 / / न्तरालापेक्षया, बहुतरकालान्तरालतयेत्यर्थः, आहच्च ऊससंति नीससंति त्ति, एते ह्यल्पशरीरत्वेनैव महाशरीरापेक्षयाऽल्पतर दुःखत्वादाहत्य, कदाचित् सान्तरमित्यर्थः, उच्छ्रासादि कुर्वन्ति, यच्च नारकाः सन्ततमेवोच्छ्रासादि कुर्वन्तीति प्रागुक्तं तन्महाशरीरापेक्षयेत्यवगन्तव्यमिति, अथवाऽपर्याप्तकालेऽल्पशरीराः सन्तो लोमाऽऽहारापेक्षया नाऽऽहारयन्त्यपर्याप्तकत्वेन छ च नोच्छ्रुसन्ति, अन्यदा त्वाहारयन्त्युच्छ्रसन्ति चेत्यत आहत्याहारयन्त्याहत्योच्छ्वसन्तीत्युक्तम्, से तेणटेणं गोयमा! एवं वुच्चइ-8 नेरइया सव्वे नो समाहारे त्यादि निगमनमिति // समकर्मसूत्रे पुव्वोववन्नगा य पच्छोववन्नगा यत्ति पूर्वोत्पन्नाः प्रथमतरमुत्पन्नास्तदन्ये तु पश्चादुत्पन्नाः, तत्र पूर्वोत्पन्नानामायुषस्तदन्यकर्मणांच बहुतरवेदनादल्पकर्मत्वम्, पश्चादुत्पन्नानांच नारकाणामायुष्कादीनामल्पतराणां वेदितत्वान्महाकर्मत्वम्, एतच्च सूत्रं समानस्थितिका ये नारकास्तानङ्गीकृत्य प्रणीतम्, अन्यथा हि रत्नप्रभाया-8 (r) मुत्कृष्टस्थिते रकस्य बहुन्यायुषि क्षयमुपगते पल्योपमावशेषेच तिष्ठति तस्यामेव रत्नप्रभायां दशवर्षसहस्रस्थिति रकोऽन्यः कश्चिदुत्पन्न इतिकृत्वा प्रागुत्पन्नं पल्योपमायुष्कं नारकमपेक्ष्य किं वक्तुं शक्यं महाकर्मेति? // एवं वर्णसूत्रे पूर्वोत्पन्नस्याल्पं कर्म ततस्तस्य विशुद्धो वर्णः, पश्चादुत्पन्नस्य च बहुकर्मत्वादविशुद्धतरो वर्ण इति // एवं लेश्यासूत्रेऽपि, इह च लेश्याशब्देन भावलेश्या ग्राह्याः, बाह्यद्रव्यलेश्या तुवर्णद्वारेणैवोक्तेति ॥समवेयण त्ति समवेदनाः समानपीडाः, सन्निभूय त्तिसज्ञा सम्यग्दर्शनं लतद्वन्तः सञ्जिनः सज्ञिनो भूताः सज्ञित्वं गताःसज्ञिभूताः, अथवाऽसज्ञिनः सज्ञिनो भूताः सजिभूताः, च्विप्रत्यययोगात्, मिथ्यादर्शनमपहाय सम्यग्दर्शनजन्मना समुत्पन्ना इति यावत्, तेषां च पूर्वकृतकर्मविपाकमनुस्मरतामहो महदुःखसङ्कटमिदमकस्मादस्माकमापतितं न कृतो भगवदर्हत्प्रणीतः सकलदुःखक्षयकरो विषयविषमविषपरिभोगविप्रलब्धचेतोभिर्द्धर्म इत्यतो महद्दुःखं मानसमुपजायतेऽतो महावेदनास्ते, असज्ञिभूतास्तु मिथ्यादृष्टयः, ते तु स्वकृतकर्मफलमिदमित्येवमजानन्तोऽनु 1 शतके उद्देशकः२ सूत्रम् 21 नैरयिकादिचतुर्विंशतिदण्डकमाहारशरीरोच्छ्वासकर्मवर्णलेश्यावेदनाक्रियाऽऽयुनवभिनिरुपणे प्रश्ना : / // 71