SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 70 // 1 शतके उद्देशक:२ सूत्रम् 21 नैरयिकादिचतुर्विंशतिदण्डकमाहारशरीरोच्छ्वासकर्मवर्णलेश्यावेदना क्रियाऽऽयु सङ्खयेयभागमात्रत्वम्, उत्कृष्टं तु महत्त्वं पञ्चधनुःशतमानत्वम्, एतच्च भवधारणीयशरीरापेक्षया, उत्तरवैक्रियापेक्षया तुजघन्यमङ्गलसङ्ख्यातभागमात्रत्वम्, इतरत्तु धनुःसहसमानत्वमिति, एतेन च किं समशरीरा इत्यत्र प्रश्न उत्तरमुक्तम्, शरीरविषमताऽभिधाने सत्याहारोच्छ्रासयोर्वैषम्यं सुखप्रतिपाद्यं भवतीति शरीरप्रश्नस्य द्वितीयस्थानोक्तस्यापि प्रथमं निर्वचनमुक्तम् // अथाहारोच्छ्रासप्रश्नयोर्निर्वचनमाह तत्थ ण मित्यादि ये यतो महाशरीरास्ते तदपेक्षया बहुतरान् पुद्गलानाहारयन्ति, महाशरीरत्वादेव, दृश्यते हि लोके बृहच्छरीरो बह्वाशी स्वल्पशरीरश्वाल्पभोजी, हस्तिशशकवत्, बाहुल्यापेक्षं चेदमुच्यते, अन्यथा बृहच्छरीरोऽपि कश्चिदल्पमश्नात्यल्पशरीरोऽपि कश्चिद्भरि भुङ्क्ते तथाविधमनुष्यवत्, न पुनरेवमिह, बाहुल्यपक्षस्यैवाश्रयणात्, ते चनारका उपपातादिसāद्यानुभवादन्यत्रासद्वेद्योदयवर्त्तित्वेनैकान्तेन यथा महाशरीरा दुःखितास्तीवाहाराभिलाषाश्च भवन्तीति। बहुतराए पोग्गले परिणामेंतित्ति, आहारपुद्गलानुसारित्वात्परिणामस्य बहुतरानित्युक्तम्, परिणामश्चापृष्टोऽप्याहारकार्यमितिकृत्वोक्तः / तथा बहुतराए पोग्गले उस्ससंति त्ति, उच्छासतया गृह्णन्ति, निस्ससंति त्ति निःश्वासतया विमुञ्चन्ति, महाशरीरत्वादेव, दृश्यते हि बृहच्छरीरस्तज्जातीयेतरापेक्षया बहूच्छ्रासनिःश्वास इति, दुःखितोऽपि तथैव, दुःखिताश्च नारका इति बहुतरांस्तानुच्छ्रसन्तीति / तथाऽऽहारस्यैव कालकृतं वैषम्यमाह, अभिक्खणं आहारेंति त्ति, अभीक्ष्णं पौनःपुन्येन यो यतो महाशरीरः स तदपेक्षया शीघ्रशीघ्रतराहारग्रहण इत्यर्थः, अभिक्खणं ऊससंति अभिक्खणं नीससंति, एते हि महाशरीरत्वेन दुःखिततरत्वादभीक्ष्णमनवरतमुच्छ्रासादि कुर्वन्तीति // तथा (तत्थ णं) जे त इत्यादि, ये ते, इह य इत्येतावतैवार्थसिद्धौ यत्त इत्युच्यते तद्भाषामात्रमेवेति, अप्पसरीरा अप्पतराए पोग्गले आहारेंति त्ति ये यतोऽल्पशरीरास्ते तदाहरणीयपुद्गलापेक्षयाऽल्पतरान् पुद्गलानाहारयन्ति, अल्पशरीरत्वादेव, आहच्च आहारेंति त्ति, कदाचिदाहारयन्ति कदाचिन्नाहारयन्ति, महाशरीराऽऽहारग्रहणा नवभिनिरुपणे प्रश्ना : / // 70 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy