SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 72 // चतुर्विंशति क्रियाऽऽयु पतप्तमानसा अल्पवेदनाः स्युरित्येके, अन्ये त्वाहुः सजिनः सज्ञिपञ्चेन्द्रियाः सन्तः, भूता नारकत्वं गताः सज्ञिभूताः, ते 1 शतके महावेदनाः, तीव्राशुभाध्यवसायेनाशुभतरकर्मबन्धनेन महानरकेषूत्पादात्, असज्ञिभूतास्त्वनुभूतपूर्वासज्ञिभवाः, ते उद्देशक:२ सूत्रम् 21 चासज्ञित्वादेवात्यन्ताशुभाध्यवसायाभावाद्रत्न प्रभायामनतितीव्रवेदननरकेषूत्पादादल्पवेदनाः, अथवा सञिभूताः पर्याप्त- नैरयिकादिकीभूताः, असज्ञिनस्त्वपर्याप्तकाः, ते च क्रमेण महावेदना इतरे च भवन्तीति प्रतीयत एवेति // समकिरिय त्ति, समाः, दण्डकमातुल्याः क्रियाः कर्मनिबन्धनभूता आरम्भिक्यादिका येषां ते समक्रियाः, आरंभिय त्ति, आरम्भः पृथिव्याधुपमर्दः स प्रयोजन हारशरीरोकारणं यस्याः साऽऽरम्भिकी 1, परिग्गहिय त्ति, परिग्रहो धर्मोपकरणवर्जवस्तुस्वीकारो धर्मोपकरणमूर्छा च स प्रयोजन च्छ्वास कर्मवर्णयस्याः सा पारिग्रहिकी 2, मायावत्तिय त्ति, माया, अनार्जवम्, उपलक्षणत्वात्क्रोधादिरपि च सा प्रत्ययः कारणं यस्याः साल लेश्यावेदनामायाप्रत्यया 3, अप्पच्चक्खाणकिरिय त्ति, अप्रत्याख्यानेन निवृत्त्यभावेन क्रिया कर्मबन्धादिकरणमप्रत्याख्यानक्रियेति 4 नवभिपंच किरियाओ कजंति त्ति क्रियन्ते, कर्मकर्तरि प्रयोगोऽयं तेन भवन्तीत्यर्थः, मिच्छादसणवत्तिय त्ति मिथ्यादर्शनं प्रत्ययो / निरुपणे हेतुर्यस्याःसा मिथ्यादर्शनप्रत्यया, ननु मिथ्यात्वाविरतिकषाययोगाः कर्मबन्धहेतव इति प्रसिद्धिः, इह त्वारम्भादयस्तेऽभिहिता इति कथं न विरोधः?, उच्यते, आरम्भपरिग्रहशब्दाभ्यां योगपरिग्रहो योगानां तद्रूपत्वात्, शेषपदैस्तु शेषबन्धहेतुपरिग्रहः प्रतीयत एवेति, तत्र सम्यग्दृष्टीनां चतन एव, मिथ्यात्वाभावात्, शेषाणां तु पञ्चापि, सम्यग्मिथ्यात्वस्य मिथ्यात्वेनैवेह विवक्षितत्वादिति // सव्वे समाउये त्यादिप्रश्नस्य निर्वचनचतुर्भङ्गया भावना क्रियते, निबद्धदशवर्षसहस्रप्रमाणायुषो युगपञ्चोत्पन्ना इति प्रथमभङ्गः 1, तेष्वेव दशवर्षसहस्रस्थितिषु नरकेष्वेके प्रथमतरमुत्पन्ना अपरेतु पश्चादिति द्वितीयः, अन्यैर्विषम0०सायभावात् प्र० प्रश्नाः / // 72
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy