________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-१ / / 73 // मायुर्निबद्धं कैश्चिद्दशवर्षसहस्रस्थितिषु कैश्चिच्च पञ्चदशवर्षसहस्रस्थितिषु, उत्पत्तिः पुनर्युगपदिति तृतीयः३, केचित्सागरोपमस्थितयः केचित्तु दशवर्षसहस्रस्थितय इत्येवं विषमायुषो विषममेव चोत्पन्ना इति चतुर्थः 4, इह सङ्ग्रहगाथा-आहाराईसुसमा छ कम्मे वन्ने तहेव लेसाए। वियणाए किरियाए आउयउववत्तिचउभंगी॥१॥असुरकुमाराणं भंते! इत्यादिनाऽसुरकुमारप्रकरणमाहारादिपदनवकोपेतं सूचितम्, तच्च नारकप्रकरणवन्नेयम्, एतदेवाह जहा नेरइये त्यादि, तत्राऽऽहारकसूत्रे नारकसूत्रसमानेऽपि भावना विशेषेण लिख्यते, असुरकुमाराणामल्पशरीरत्वंभवधारणीयशरीरापेक्षया जघन्यतोऽङ्गलासङ्खयेयभागमानत्वम्, महाशरीरत्वं तूत्कर्षतः सप्तहस्तप्रमाणत्वम्, उत्तरवैक्रियापेक्षया त्वल्पशरीरत्वं जघन्यतोऽङ्गलसङ्खयेयभागमानत्वं महाशरीरत्वं तूत्कर्षतो योजनलक्षमानमिति, तत्रैते महाशरीरा बहुतरान् पुद्गलानाहारयन्ति, मनोभक्षणलक्षणाऽऽहारापेक्षया, देवानां ह्यसौ स्यात् प्रधानश्च, प्रधानापेक्षया च शास्त्रे निर्देशो वस्तूनां विधीयते, ततोऽल्पशरीरग्राह्याऽऽहारपुद्गलापेक्षया बहुतरांस्ते तानाऽऽहारयन्तीत्यादि प्राग्वत्, अभीक्ष्णमाहारयन्त्यभीक्ष्णमुच्छ्रुसन्ति चेत्यत्र ये चतुर्थादेरुपर्याहारयन्ति स्तोकसप्तकादेश्वोपर्युच्छ्रुसन्ति। तानाश्रित्याभीक्ष्णमित्युच्यते, उत्कर्षतो ये सातिरेकवर्षसहस्रस्योपर्याहारयन्ति सातिरेकपक्षस्य चोपयुच्छ्रसन्ति तानङ्गीकृत्यैतेषामल्पकालीनाऽऽहारोच्छासत्वेन पुनः पुनराहारयन्तीत्यादिव्यपदेशविषयत्वादिति, तथाऽल्पशरीरा अल्पतरान् पुद्गलानाहारयन्त्युच्छ्रुसन्ति चाल्पशरीरत्वादेव, यत्पुनस्तेषांकादाचित्कत्वमाऽऽहारोच्छ्रासयोस्तन्महाशरीराहारोच्छ्रासान्तरालापेक्षया बहुतमान्तरालत्वात्, तत्र ह्यन्तराले ते नाहारादि कुर्वन्ति तदन्यत्र कुर्वन्तीत्येवं विवक्षणादिति, महाशरीराणामप्याहारोच्छ्रासयोरन्तरालमस्ति किन्तु तदल्पमित्यविवक्षणादेवाभीक्ष्णमित्युक्तम्, सिद्धं च महाशरीराणां तेषामाहारोच्छ्रासयोरल्पान्तरत्वम्, Oआहारादिषु समाः कर्मणि वर्णे तथैव लेश्यायाम्। वेदनायां क्रियायामायुरुपपत्तिचतुर्भङ्गी॥१॥ १शतके उद्देशकः२ सूत्रम् 21 नैरयिकादिचतुर्विंशतिदण्डकमाहारशरीरोच्छ्वासकर्मवर्णः लेश्यावेदनाक्रियाऽऽयुनवभिनिरुपणे प्रश्ना : /