SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 74 // अल्पशरीराणां तु महाऽन्तरत्वम्, यथा सौधर्मदेवानां सप्तहस्तमानतया महाशरीराणां तयोरन्तरं क्रमेण वर्षसहस्रद्वयं पक्षद्वयं च, अनुत्तरसुराणांच हस्तमानतयाऽल्पशरीराणां त्रयस्त्रिंशद्वर्षसहस्राणि त्रयस्त्रिंशदेव च पक्षा इति, एषां च महाशरीराणामभीक्ष्णाहारोच्छ्रासाभिधानेनाल्पस्थितिकत्वमवसीयते, इतरेषां तु विपर्ययो वैमानिकवदेवेति, अथवा लोमाहारापेक्षयाऽभीक्ष्णमनुसमयमाहारयन्ति महाशरीराः पर्याप्तकावस्थायाम्, उच्छ्वासस्तु यथोक्तमानेनापि भवन् परिपूर्णभवापेक्षया पुनः पुनरित्युच्यते, अपर्याप्तकावस्थायां त्वल्पशरीरा लोमाहारतोनाहारयन्त्योजाहारत एवाहरणादिति कदाचित्त आहारयन्तीत्युच्यते, उच्छासापर्याप्तकावस्थायांच नोच्छ्रसन्त्यन्यदा तूच्छुसन्तीत्युच्यत आहत्योच्छ्रसन्तीति / कम्मवन्नलेस्साओ परिवन्नेयव्वाओ त्ति कर्मादीनि नारकापेक्षया विपर्ययेण वाच्यानि, तथाहि नारका ये पूर्वोत्पन्नास्तेऽल्पकर्मकशुद्धतरवर्णशुभतरलेश्या उक्ता असुरास्तु ये पूर्वोत्पन्नास्ते महाकर्माणोऽशुद्धवर्णा अशुभतरलेश्याश्चेति, कथम्?, ये हि पूर्वोत्पन्ना असुरास्तेऽतिकन्दर्पदध्मात चित्तत्वान्नारकाननेकप्रकारया यातनया यातयन्तः प्रभूतमशुभं कर्म संचिन्वन्तीत्यतोऽभिधीयन्ते ते महाकर्माणः, अथवा ये बद्धायुषस्ते तिर्यगादिप्रायोग्यकर्मप्रकृतिबन्धनान्महाकाण: तथाऽशुभवर्णा अशुभलेश्याश्च ते, पूर्वोत्पन्नानां हि क्षीणत्वाच्छुभकर्मणः शुभवर्णादयः, शुभो वर्णो लेश्या च ह्रसतीति, पश्चादुत्पन्नास्त्वबद्धायुषोऽल्पकर्माणो बहुतरकर्मणामबन्धनादशुभकर्मणामक्षीणत्वाच्च शुभवर्णादयः स्युरिति ॥वेदनासूत्रं च यद्यपि नारकाणामिवासुरकुमाराणामपि तथाऽपि तद्भावनायां विशेषः, स चायम्, ये सज्ञिभूतास्ते महावेदनाः, चारित्रविराधनाजन्यचित्तसन्तापात्, अथवा सञिभूताः सझिपूर्वभवाः पर्याप्ता वा ते शुभवेदनामाश्रित्य महावेदना इतरे त्वल्पवेदना इति / एवं नागकुमारादयोऽपि 9 औचित्येन वाच्याः॥ पुढविक्काइया लणंभंते! आहारकम्मवन्नलेस्सा जहा नेरइयाणं ति चत्वार्यपि सूत्राणि नारकसूत्राणीव पृथिवीकायिकाभिलापेनाधीयन्त इत्यर्थः, १शतके उद्देशकः 2 सूत्रम् 21 नैरयिकादिचतुर्विंशतिदण्डकमाहारशरीरोच्छ्वासकर्मवर्णलेश्यावेदनाक्रियाऽऽयुनवभिनिरुपणे प्रश्नाः / // 74 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy