SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 75 // १शतके उद्देशक:२ सूत्रम् 21 नैरयिकादिचतुर्विंशतिदण्डकमा हारशरीरो केवलमाहारसूत्रे भावनैवं पृथिवीकायिकानामङ्गलासङ्घयेयभागमात्रशरीरत्वेऽप्यल्पशरीरत्वम्, इतरच्चेत आगमवचना वसेयम् पुढविक्काइयस्स ओगाहणट्टयाए चउट्ठाणवडिए त्ति, ते च महाशरीरा लोमाहारतो बहुतरान् पुद्गलानाहारयन्तीति(न्ति) उच्छ्रुसन्ति चाभीक्ष्णं महाशरीरत्वादेव, अल्पशरीराणामल्पाहारोच्छासत्वमल्पशरीरत्वादेव, कादाचित्कत्वंच तयोः पर्याप्तकेतरावस्थापेक्षमवसेयम् // तथा कर्मादिसूत्रेषु पूर्वपश्चादुत्पन्नानां पृथिवीकायिकानां कर्मवर्णलेश्याविभागो नारकैः सम एव, वेदनाक्रिययोस्तु नानात्वमत एवाह असन्नि त्ति मिथ्यादृष्टयोऽमनस्का वा, असन्निभूय त्ति, असज्ञिभूता असज्ञिनां या जायते तामित्यर्थः, एतदेव व्यनक्ति, अणिदाएत्ति, अनिर्धारणया वेदनांवेदयन्ति, वेदनामनुभवन्तोऽपिन पूर्वोपात्ताशुभकर्मपरिणतिरियमिति मिथ्यादृष्टित्वादवगच्छन्ति, विमनस्कत्वाद्वा मत्तमूर्छितादिवदिति भावना। माईमिच्छादिट्ठित्ति मायावन्तो हितेषु प्रायेणोत्पद्यन्ते, यदाह, उम्मग्गदेसओ मग्गणासओ गूढहियय माइलो। सढसीलोय ससल्लो तिरियाउंबंधए जीवो॥१॥त्ति, ततस्ते मायिन उच्यन्ते, अथवा मायेहानन्तानुबन्धिकषायोपलक्षणम्, अतोऽनन्तानुबन्धिकषायोदयवन्तोऽत एव मिथ्यादृष्टयो मिथ्यात्वोदयवृत्तय इति / ताणं णियइयाओ त्ति तेषां पृथिवीकायिकानां नैयतिक्यो नियता न तु त्रिप्रभृतय इति, पञ्चैवेत्यर्थः, से तेणटेणं समकिरिय त्ति निगमनम्, जाव चउरिंदिय त्ति, इह महाशरीरत्वमितरच्च स्वस्वावगाहनाऽनुसारेणावसेयम्, आहारश्च / द्वीन्द्रियादीनां प्रक्षेपलक्षणोऽपीति / पंचिंदियतिरिक्खजोणिया जहा नेरइय त्ति प्रतीतम्, नवरमिह महाशरीरा अभीक्ष्णमाहारयन्त्युच्छ्रसन्ति चेति यदुच्यते तत्सङ्ख्यातवर्षायुषोऽपेक्ष्येत्यवसेयम्, तथैव दर्शनात्, नासङ्ख्यातवर्षायुषः, तेषां प्रक्षेपाहारस्य 0 पृथिवीकायिकः पृथ्वीकायिकस्य शरीरापेक्षया (अवगाहनार्थतया)चतुःस्थानपतितः (अनन्तभागानन्तगुणवये) // 0 उन्मार्गदेशको मार्गनाशको गूढहृदयो मायावी। शठस्वभावः सशल्यश्च जीवस्तिर्यगायुर्बध्नाति // 1 // च्छ्वासकर्मवर्णलेश्यावेदनाक्रियाऽऽयुनवभिनिरुपणे प्रश्नाः /
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy