________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 76 // षष्ठस्योपरि प्रतिपादितत्वात्, अल्पशरीराणां त्वाहारोच्छ्रासयोः कादाचित्कत्वं वचनप्रामाण्यादिति, लोमाहारापेक्षया तु सर्वेषामप्यभीक्ष्णमिति घटत एव, अल्पशरीराणांतु यत्कादाचित्कत्वंतदपर्याप्तकत्वे लोमाहारोच्छ्रासयोरभवनेन पर्याप्तकत्वे च तद्भावेनावसेयमिति॥तथा कर्मसूत्रे यत्पूर्वोत्पन्नानामल्पकर्मत्वमितरेषांतुमहाकर्मत्वंतदायुष्कादितद्भववेद्यकर्मापेक्षयाऽवसेयम् // तथा वर्णलेश्यासूत्रयोर्यत्पूर्वोत्पन्नानां शुभवर्णाद्युक्तं तत्तारुण्यात् पश्चादुत्पन्नानांचाशुभवर्णादि बाल्यादवसेयम्, लोके तथैव दर्शनादिति / तथा संजयासंजय त्ति देशविरताः स्थूलात् प्राणातिपातादेर्निवृत्तत्वादितरस्मादनिवृत्तत्वाच्चेति / मणुस्सा जहा नेरइय त्ति तथा वाच्या इति गम्यं, नाणत्तं ति नानात्वं भेदः पुनरयं, तत्र मणुस्सा णं भंते! सव्वे समाहारगा? इत्यादि प्रश्नः, नो इणढे समट्ठ इत्याधुत्तरं जाव दुविहा मणुस्सा पन्नत्ता, तंजहा- महासरीरा य अप्पसरीरा य, तत्थ णं जे ते महासरीरा ते बहुतराए पोग्गले आहारेंति, एवं परिणामेंति ऊससंति नीससंति // इह स्थाने नारकसूत्र अभिक्खणं आहारेंती त्यधीतम्, इह तु आहच्चे त्यधीयते, महाशरीरा हि देवकुर्वादिमिथुनकाः,ते च कदाचिदेवाहारयन्ति कावलिकाहारेण, अट्ठमभत्तस्स आहारो त्तिवचनात्, अल्पशरीरास्त्वभीक्ष्णमल्पंच, बालानां तथैव दर्शनात् संमूर्छिममनुष्याणामल्पशरीराणामनवरतमाहारसम्भवाच्च, यच्चेह पूर्वोत्पन्नानां शुद्धवर्णादि तत्तारुण्यात् संमूर्छिमापेक्षया वेति / सरागसंजय त्ति, अक्षीणानुपशान्तकषायाः वीयरागसंजय त्ति, उपशान्तकषायाःक्षीणकषायाश्च, अकिरिय त्ति वीतरागत्वेनारम्भादीनामभावादक्रियाः, एगामायावत्तिय त्ति, अप्रमत्तसंयतानामेकैवमायाप्रत्यया किरिया कज्जइत्ति क्रियते, भवति कदाचिदुड्डाहरक्षणप्रवृत्तानामक्षीणकषायत्त्वादिति, आरंभिय त्ति प्रमत्तसंयतानां च सर्वः प्रमत्तयोग आरम्भ इतिकृत्वाऽऽरम्भिकी स्यात्, अक्षीणकषायत्वाच्च मायाप्रत्ययेति / वाणमंतरजोइसवेमाणिया जहा असुरकुमारत्ति, तत्र शरीरस्याल्पत्वमहत्त्वेस्वावगाहनानुसारेणावसेये। तथा वेदनायामसुरकुमाराः 1 शतके उद्देशक: 2 सूत्रम् 21 नैरयिकादिचतुर्विंशतिदण्डकमाहारशरीरोच्छ्वासकर्मवर्णलेश्यावेदनाक्रियाऽऽयुनवभिनिरुपणे प्रश्नाः / // 76 //