SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 77 // १शतके उद्देशक:२ सूत्रम् 21 नैरयिकादिचतुर्विंशतिदण्डकमाहारशरीरोच्छ्वासकर्मवर्णलेश्यावेदना क्रियाऽऽयु सन्निभूया य असन्निभूया य, सन्निभूया महावेयणा असन्निभूया अप्पवेयणेत्येवमधीताः, व्यन्तरा अपि तथैवाध्येतव्याः, यतोऽसुरादिषु व्यन्तरान्तेषु देवेष्वसज्ञिन उत्पद्यन्ते, यतोऽत्रैवोद्देशके वक्ष्यति, असन्नी णं जहन्नेणं भवणवासीसु उक्कोसेणं वाणमंतरेसु त्ति, ते चासुरकुमारप्रकरणोक्तयुक्तरल्पवेदना भवन्तीत्यवसेयम्, यत्तु प्रागुक्तं सझिनः सम्यगदृष्टयोऽसज्ञिनस्त्वितर इति तद्वृद्धव्याख्यानुसारेणैवेति, ज्योतिष्कवैमानिकेषु त्वसज्ञिनो नोत्पद्यन्ते ऽतो वेदनापदे तेष्वधीयते दुविहा जोतिसियामायिमिच्छदिट्ठी उववन्नगा ये त्यादि, तत्र मायिमिथ्यादृष्टयोऽल्पवेदना इतरे च महावेदनाः शुभवेदनामाश्रित्येति, एतदेव दर्शयन्नाह- नवरं वेयणाए इत्यादि / अथचतुर्विंशतिदण्डकमेव लेश्याभेदविशेषणमाहारादिपदैनिरूपयन् दण्डकसप्तकमाह सलेस्साणं भंते! नेरइया सव्वे समाहारग त्ति, अनेनाऽऽहारशरीरोच्छ्रासकर्मवर्णलेश्यावेदनाक्रियोपपाताख्यपूर्वोक्तनवपदोपेतनारकादिचतुविंशतिपददण्डको लेश्यापदविशेषितः सूचितः, तदन्ये च कृष्णलेश्यादिविशेषिताः। पूर्वोक्तनवपदोपेता एव यथासम्भवं नारकादिपदात्मकाः षड् दण्डकाः सूचिताः / तदेवमेतेषां सप्तानांदण्डकानांसूत्रसङ्केपार्थ यो यथाऽध्येतव्यस्तंतथा दर्शयन्नाह ओहियाण मित्यादि, तत्रौघिकानांपूर्वोक्तानां निर्विशेषणानां नारकादीनां तथा सलेश्यानामधिकृतानामेव शुक्ललेश्यानांतु सप्तमदण्डकवाच्यानामेषां त्रयाणामेको गमः- सदृशः पाठः, सलेश्यः शुक्ललेश्यश्चेत्येवंविधविशेषणकृत एव तत्र भेदः, औघिकदण्डकसूत्रवदनयोः सूत्रमिति हृदयम्, तथा जस्सत्थी त्येतस्य वक्ष्यमाणपदस्येह सम्बन्धाद्यस्य शुक्ललेश्याऽस्ति स एव तद्दण्डकेऽध्येतव्यः, तेनेह पञ्चेन्द्रियतिर्यञ्चो मनुष्या वैमानिकाश्च वाच्याः, नारकादीनां शुक्ललेश्याया अभावादिति, किण्हलेसनीललेसाणंपि एगो गमो, औधिक एवेत्यर्थः, विशेषमाह नवरं वेयणे त्यादि, कृष्णलेश्यादण्डके नीललेश्यादण्डके च वेदनासूत्रे दुविहाणेरइया पन्नत्ता सन्निभूया य असन्निभूया यत्ति, औघिकदण्डकाधीतं नाध्येतव्यम्, असज्ञिनांप्रथमपृथिव्या नवभि निरुपणे प्रश्नाः / // 77 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy