SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 78 // दण्डकमा हारशरीरो मेवोत्पादात्, असण्णी खलु पढम मिति वचनात्, प्रथमायां च कृष्णनीललेश्ययोरभावात्, तर्हि किमध्येतव्यमित्याह १शतके मायिमिच्छदिट्ठिउववन्नगा ये त्यादि, तत्र मायिनो मिथ्यादृष्टयश्च महावेदना भवन्ति, यतः प्रकर्षपर्यन्तवर्तिनी स्थितिमशुभां ते उद्देशकः 2 सूत्रम् 21 निर्वर्त्तयन्ति, प्रकृष्टायां च तस्यां महती वेदना संभवति, इतरेषां तु विपरीतेति / तथा मनुष्यपदे क्रियासूत्रे यद्यप्यौघिकदण्डके नैरयिकादितिविहा मणुस्सा पन्नत्ता, तंजहा-संजया 3, तत्थ णं जे ते संजया ते दुविहा पन्नत्ता, तंजहा- सरागसंजया य वीयरागसंजया, तत्थ णं जेल चतुर्विशतिते सरागसंजया ते दुविहा पन्नता, तंजहा- पमत्तसंजया य अप्पमत्तसंज्या यत्ति पठितम्, तथाऽपि कृष्णनीललेश्यादण्डकयो ध्ये च्छ्वासतव्यम्, कृष्णनीललेश्योदये संयमस्य निषिद्धत्वात्, यच्चोच्यते पुव्वपडिवन्नओपुण अन्नयरीए उलेस्साए त्ति तत्कृष्णादिद्रव्यरूपां कर्मवर्णद्रव्यलेश्यामङ्गीकृत्य न तु कृष्णादि द्रव्यसाचिव्यजनितात्मपरिणामरूपांभावलेश्याम्, एतच्च प्रागुक्तमिति, एतदेव दर्शयन्नाह लेश्यावेदना क्रियाऽऽयुमणुस्से त्यादि, तथा कापोतलेश्यादण्डकोऽपि नीलादिलेश्यादण्डकवदध्येतव्यः, नवरं नारकपदे वेदनासूत्रे नारका नवभिऔघिकदण्डकवदेव वाच्याः , ते चैवम्, नेरइया दुविहा पन्नत्ता, तंजहा- सन्निभूया य असन्निभूया य त्ति, असज्ञिनां प्रथम- निरुपणे प्रश्नाः / पृथिव्युत्पादेन कापोतलेश्यासम्भवादत आह काउलेस्साणवी त्यादि। तथा तेजोलेश्या पद्मलेश्या च यस्य जीवविशेषस्यास्ति तमाश्रित्य यथौघिको दण्डकस्तथा तयोर्दण्डको भणितव्यौ, तदस्तिता चैवम्, नारकाणां विकलेन्द्रियाणां तेजो वायूनां चाद्यास्तिन एव भवनपति पृथिव्यम्बुवनस्पतिव्यन्तराणामाद्याश्चतस्रः, पञ्चेन्द्रियतिर्थग्मनुष्याणां षड्, ज्योतिषां तेजोलेश्या, वैमानिकानां तिम्रः प्रशस्ता इति, आह च किण्हानीलाकाऊतेउलेसा य भवणवंतरिया। जोइससोहम्मीसाण तेउलेसा मुणेयव्वा॥ // 78 // 0असंज्ञी खलु प्रथमायां। 0 पूर्वप्रतिपन्नकः पुनरन्यतरस्यां तु लेश्यायाम्। 0 भवनव्यन्तराः कृष्णनीलकापोततेजोलेश्याः, ज्योतिष्कसौधर्मेशानास्तेजोलेश्या ज्ञातव्याः // 1 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy