________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-१ // 79 // १शतके उद्देशक:२ सूत्रम् 22 लेश्याविचार प्रश्राः / यथाप्रज्ञापनायाम्। 1 // कप्पे सणंकुमारे माहिदे चेव बंभलोगे य। एएसु पम्हलेसा तेण परं सुक्कलेस्सा उ॥२॥ तथा पुढवीआउवणस्सइबायरपत्तेय लेस चत्तारि (तेजोलेश्यान्ताः) गब्भयतिरियनरेसु छल्लेसा तिन्नि सेसाणं॥३॥ केवलमौघिकदण्डके क्रियासूत्रे मनुष्याः सरागवीतरागविशेषणा अधीता इह तु तथा न वाच्याः, तेजःपद्मलेश्ययोर्वीतरागत्वासम्भवाच्छुक्ललेश्यायामेव तत्सम्भवात्, प्रमत्ताप्रमत्तास्तूच्यन्त इति, एतदेव दर्शयन्नाह तेउलेसा पम्हलेसे त्यादि / गाह त्ति, उद्देशकादितः सूत्रार्थसङ्ग्रहगाथा गतार्थाऽपि सुखबोधार्थमुच्यते-दुःखमायुश्चोदीर्णं वेदयतीत्येकत्वबहुत्वाभ्यां दण्डकचतुष्टयमुक्तम्, तथा आहारे त्ति नेरइया किं समाहारा? इत्यादि, तथा किं समकम्मा? तथा किं समवन्ना? तथा किं समलेसा? तथा किं समवेयणा? तथा किं समकिरिया? तथा किं समाउया समोववन्नग त्ति गाथार्थः // 21 // प्राक् सलेश्या नारका इत्युक्तमथलेश्या निरूपयन्नाह कड़ णं भंते! लेस्साओ पन्नत्ताओ?, गोयमा! छल्लेस्साओ पन्नत्ता, तंजहा-लेसाणं बीयओ उद्देसओ भाणियव्वो जाव इड्डी॥ सूत्रम् 22 // तत्रात्मनि कर्मपुद्गलानां लेशनात्संश्लेषणाल्लेश्या, योगपरिणामश्चैताः, योगनिरोधे लेश्यानामभावात्, योगश्च शरीरनामकर्मपरिणतिविशेषः, लेस्साणं बीओ उद्देसओ त्ति प्रज्ञापनायां लेश्यापदस्य चतुरुद्देशकस्येह द्वितीयोद्देशको लेश्यास्वरूपावगमाय भणितव्यः, प्रथम इति क्वचिदृश्यते सोऽपपाठ इति / अथ कियडूरं यावदित्याह जाव इड्डी, ऋद्धिवक्तव्यतां यावत्, स चायं सङ्खपतः कइ णं भंते! लेसाओ पन्नताओ?, गोयमा! छलेसाओ पन्नताओ, तंजहा- कण्हलेसा 6, एवं सर्वत्र प्रश्न उत्तरं च + सनत्कुमारे कल्पे माहेन्द्रे ब्रह्मलोके चैव। एतेषु पद्मलेश्या ततः परं शुक्ललेश्यैव // 2 // पृथिव्यब्बनस्पतिबादरप्रत्येकानां चतस्रो लेश्याः (तेजोऽन्ताः)। गर्भजतिर्यङ्नराणां षड् लेश्याः शेषाणां तिस्रः॥ 3 //