________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 65 // १शतके उद्देशकः 2 सूत्रम् 20 स्वयंकृतकर्मवेदनप्रश्नः। निराकृतान्धकारतया, अवगाढगाढ त्ति गाढं बाढमवगाढास्तैरेव सकलक्रीडास्थानपरिभोगनिहितमनोभिरधोऽपि व्याप्ताः, गाढावगाढा इति वाच्ये प्राकृतत्वादवगाढगाढाः, इह च देवत्वयोग्यस्य जीवस्याभिधानेन तदयोग्यः सामर्थ्यादवसीयत एवेति, अत्थेगइए नो देवे सिये त्येतस्यादावुक्तस्य पक्षस्य निर्वचनं कृतं द्रष्टव्यमिति // अथोद्देशकनिगमनार्थमाह सेवं भंते सेवं भंते त्ति, यन्मया पृष्टं तद्भगवद्भिः प्रतिपादितं तदेवमित्थमेव भदन्त! नान्यथा, अनेन भगवद्वचने बहुमानं दर्शयति, द्विर्वचनं चेह भक्तिसंभ्रमकृतमिति, एवं कृत्वा भगवान् गौतमः श्रमणं भगवन्तं महावीरं वन्दते नमस्यति चेति // 19 // प्रथमशते प्रथमोद्देशकः // 1-1 // ॥प्रथमशतके द्वितीयोद्देशकः॥ व्याख्यातः प्रथमोद्देशकः, अथ द्वितीय आरभ्यते, अस्य चैवं संबन्धः, प्रथमोद्देशके चलनादिधर्मकं कर्म कथितं तदेवेह निरूप्यते, तथोद्देशकार्थसङ्गहिण्यां दुक्खे त्ति यदुक्तं तदिहोच्यते, तत्प्रस्तावनार्थं च पूर्वोक्तमेव ग्रन्थं स्मरन्नाह रायगिहे नगरे समोसरणं, परिसा निग्गया जाव एवं वयासी-जीवे णं भंते! सयंकडं दुक्खं वेदेइ?, गोयमा! अत्थेगइयं वेएइ अत्थेगइयं नो वेएइ, सेकेणतुणं भंते! एवं वुच्चइ-अत्थेगइयं वेदेइ अत्थेगइयं नो वेएइ?, गोयमा! उदिन्नं वेएइ अणुदिन्नं नो वेएइ, से तेणटेणं एवं वुच्चइ-अत्थेगइयं वेएइ अत्थेगतियं नो वेएइ, एवं चउव्वीसदंडएणंजाव वेमाणिए ।जीवाणं भंते! सयंकडं दुक्खं वेएन्ति?, गोयमा! अत्थेगइयं वेयन्ति अत्थेगइयंणो वेयन्ति, सेकेणटेणं?, गोयमा! उदिन्नं वेयन्ति नो अणुदिन्नं वेयन्ति, से तेणटेणं, एवं जाव वेमाणिया ॥जीवेणं भंते! सयंकडं आउयं वेएइ? गोयमा! अत्थेगइयं वेएइ अत्थेगइयं नो वेएइ जहा दुक्खेणं दो दंडगा तहा आउएणविदो दंडगा एगत्तपुहुत्तिया, एगत्तेणंजाव वेमाणिया पुहुत्तेणवि तहेव ॥॥सूत्रम् 20 // // 65 //