________________ १शतके श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 64 // एव वा, इहं ति, इह मर्त्यलोके, असोगवणे इ व त्ति, अशोकवनम्, इतिशब्द उपप्रदर्शने, अनुस्वारलोपः सन्धिश्च प्राकृत तत्वात्, वेति विकल्पार्थः, अथवा असोगवण इत्यत्र प्रथमैकवचनकृत एकारः,'ई' शब्दस्तु वाक्यालङ्कारे, अशोकादयस्तु उद्देशकः१ सूत्रम् 19 प्रसिद्धा एव, नवरं सत्तवन्न ति सप्तपर्णः सप्तच्छद इत्यर्थः कुसुमिय त्ति संजातकुसुमम्, माइय त्ति मयूरितं संजातपुष्पविशेष- उद्देशकमित्यर्थः, लवइय त्ति लवकितं संजातपल्लवलवमङ्करवदित्यर्थः, थवइय त्ति स्तबकितं संजातपुष्पस्तबकमित्यर्थः, गुलइय त्ति निगमनं श्रीगौतमसंजातगुल्मकम्, गुल्मं च लतासमूहः, गुच्छिय त्ति संजातगुच्छम्, गुच्छश्च पत्रसमूहः, यद्यपि च स्तबकगुच्छयोरविशेषो / स्वामिनो नामकोशेऽधीतस्तथाऽपीह पुष्पपत्रकृतो विशेषोभावनीयः, जमलिय त्ति यमलतया समश्रेणितया तत्तरूणां व्यवस्थितत्वात् भगवन्महावीरं वन्दनादिच। संजातयमलत्वेन यमलितम्, जुवलिय त्ति युगलतया तत्तरूणां संजातत्वेन युगलितम्, विणमिय त्ति विशेषेण पुष्पफलभरेण नमितमितिकृत्वा विनमितम्, पणमिय त्ति तेनैव नमयितुमारब्धत्वात्प्रणमितं प्रशब्दस्यादिकर्मार्थत्वादिति, तथा सुविभक्ता अतिविभक्ताः सुनिष्पन्नतया पिण्ड्यो लुम्ब्यो मञ्जर्यश्च प्रतीतास्ता एवावतंसका शेखरकास्तान् धारयति यत्तत्सुविभक्तपिण्डीमञ्जर्यवतंसकधरम्, ततः कुसुमितादीनां कर्मधारय इति, सिरीए त्ति श्रिया वनलक्ष्या, उवसोभेमाणे 2 त्ति, इह द्विर्वचनमाभीक्ष्ण्ये भृशत्व इत्यर्थः,आइन्न त्ति क्वचित्प्रदेशे देवानां देवीनां च वृन्दैरात्मीयात्मीयाऽऽवासमर्यादानुल्लङ्घनेन व्याप्ताः, आशब्दोऽत्र मर्यादावृत्तिः, तथा क्वचित्तु विइइन्न त्ति तैरेव वृन्दैर्निजावाससीमोल्लङ्घनेन व्याप्ताः, विशब्दो विशेषवाची, उवत्थडत्ति, उपस्तीर्णाः, उपशब्दः सामीप्यार्थः, स्तृञ्चाऽऽच्छादनार्थस्ततश्चोत्पतद्भिर्निपतद्भिश्चानवरतक्रीडासक्तैरुपर्युपरिच्छादिताः, संथड त्ति संस्तीर्णाः, संशब्दः परस्परसंश्लेषार्थः, ततश्च क्वचित्तैरेव क्रीडमानैरन्योऽन्यस्पर्द्धया समन्ततश्चलद्भिराच्छादिता इति, फुड त्ति स्पृष्टा आसनशयनरमणपरिभोगद्वारेण परिभुक्ताः स्फुटा वा प्रकाशा व्यन्तरसुरनिकरकिरणविसर II EX II