SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 63 // १शतके उद्देशकः१ सूत्रम् 19 अकाम| निर्जरादीनां देवत्वादि |प्रश्नाः / विशेषः, आकरो लोहाद्युत्पत्तिस्थानम्, नकरं कररहितम्, निगमो वणिग्जनप्रधानं स्थानम्, राजधानी यत्र राजा स्वयं वसति, खेटं धूलिप्राकारम्, कर्बट कुनगरम्, मडम्बं सर्वतो दूरवर्त्ति सन्निवेशान्तरं द्रोणमुखं जलपथस्थलपथोपेतं पत्तनं विविधदेशागतपण्यस्थानम्, तच्च द्विधा जलपत्तनं स्थलपत्तनं चेति, रत्नभूमिरित्यन्ये, आश्रमं तापसादिस्थानं सन्निवेशोघोषादिः, एषांद्वन्द्वस्ततस्तेषु, अथवा ग्रामादयो येसन्निवेशास्ते तथा तेषु, अकामतण्हाएत्ति, अकामानां निर्जराधनभिलाषिणां सताम्, तृष्णा तृड्, अकामतृष्णा तया, एवमकामक्षुधा, अकामबंभचेरवासेणं ति, अकामानां निर्जराधनभिलाषिणां सताम् अकामो वा निरभिप्रायो ब्रह्मचर्येण स्त्र्यादिपरिभोगाभावमात्रलक्षणेन वासः,रात्रौ शयनमकामब्रह्मचर्यवासोऽतस्तेन, अकामअण्हाणगसेयजल्लमलपंकपरिदाहेणं ति, अकामा येऽस्नानकादयस्तेभ्यो यः परिदाहः स तथा तेन, तत्र स्वेदः प्रस्वेदः याति च लगति चेति जल्लो रजोमात्रम्, मल: कठिनीभूतं रज एव, पङ्को मल एव स्वेदेनार्दीभूत इति, अप्पतरो वा भुजतरो वा कालं ति प्राकृतत्वेन विभक्तिविपरिणामादल्पतरं वा भूयस्तरं वा बहुतरं कालं यावत्, वाशब्दौ देवत्वं प्रत्यल्पेतरकालयोः समताऽभिधानार्थी, केवलं देवत्वेसामान्यतःसत्यपि, अल्पतरकालमकामनिर्जरावतामविशिष्टं तत्स्यादितरेषांतु विशिष्टमिति, अप्पाणं परिकिलेसंति त्ति विबाधयन्ति, कालमासे त्ति कालो मरणं तस्य मासः प्रक्रमादवसरः कालमासस्तत्र कालं किच्च त्ति मृत्वा, वाणमंतरेसु त्ति वनान्तरेषु वनविशेषेषु भवा अवर्णागमकरणाद्वानमन्तराः, अन्ये त्वाहुः- वनेषु भवा वानास्ते च ते व्यन्तराश्चेति वानव्यन्तरास्तेषामेते वानमन्तरा वानव्यन्तरा वाऽतस्तेषु, देवलोकेषु देवाश्रयेषु, देवत्ताए उववत्तारो भवंति त्ति य इम इत्यत्र यच्छब्दोपादानात्ते देवतयोपपत्तारो भवन्तीति द्रष्टव्यम् / तेसिं ति ये देवलोकेष्वकामनिर्जरावन्तो देवतयोत्पद्यन्ते तेषामिति, से जहानामए त्ति से त्ति, अथ यथा येन प्रकारेण नामेति संभावने वाक्यालङ्कारे वा, ए, इत्यामन्त्रणार्थोऽलङ्कारार्थ // 63 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy