________________ श्रीभगवत्य श्रीअभय. वृत्तियुतम् भाग-१ 1 शतके | उद्देशकः१ सूत्रम् 18 | असंवृत्त| संवृताणगार| सिद्धिरादि | प्रश्रा:। // 60 // तथा ह्रस्वकालस्थितिका दीर्घकालस्थितिकाः प्रकरोति, तत्र स्थितिरुपात्तस्य कर्मणोऽवस्थानम्, तामल्पकालांमहतीं करोतीत्यर्थः, असंवृतत्वस्य कषायरूपत्वेन स्थितिबन्धहेतुत्वात्, आह च ठिइमणुभागं कसायओ कुणइत्ति / तथा मंदाणुभावेत्यादि, इहानुभावो विपाको रसविशेष इत्यर्थः, ततश्चमन्दानुभावाः परिपेलवरसा:सतीर्गाढरसाः प्रकरोति, असंवृतत्वस्य कषायरूपत्वादेव, अनुभागबन्धस्य च कषायप्रत्ययत्वादिति, अप्पपएसे त्यादि, अल्पं स्तोकं प्रदेशाग्रं कर्मदलिकपरिमाणं यासां तास्तथा, ता बहुप्रदेशाग्राः प्रकरोति, प्रदेशबन्धस्यापि योगप्रत्ययत्वाद्, असंवृतत्वस्य च योगरूपत्वादिति, आउयं चे त्यादि, आयुः पुनः कर्म स्यात् कदाचिद्बध्नाति स्यात् कदाचिन्न बध्नाति, यस्मात्रिभागाद्यवशेषायुषः परभवायुः प्रकुर्वन्ति, तेन यदा त्रिभागादिस्तदा बध्नाति, अन्यदा न बध्नातीति, तथा असाए इत्यादि, असातवेदनीयं च दुःखवेदनीयं कर्म पुनभूयो भूयः पुनःपुनः, उपचिनोत्युपचितं करोति, ननु कर्मसप्तकान्तवर्त्तित्वादसातवेदनीयस्य पूर्वोक्तविशेषणेभ्य एव तदुपचयप्रतिपत्तेः किमेतद्वहणेन? इति, अत्रोच्यते, असंवृतोऽत्यन्तदुःखितो भवतीति प्रतिपादनेन भयजननादसंवृतत्वपरिहारार्थमिदमित्यदुष्टमिति, अणाइयं ति, अविद्यमानादिकमज्ञातिकं वा, अविद्यमानस्वजनमृणं वा, अतीतमृणजन्यदुःस्थताऽतिक्रान्तं दुःस्थतानिमित्ततयेति, ऋणातीतम्, अणंवाऽणकंपापमतिशयेनेतं गतमणातीतम्, अणवयग्गंति, अवयगंति देशीवचनोऽन्तवाचकस्ततस्तन्निषेधादणवयग्गम्, अनन्तमित्यर्थः, अथवाऽवनतम्, आसन्नमग्रम्, अन्तो यस्य तत्तथा तन्निषेधादनवनताग्रम्, एतदेव वर्णनाशादवनता (नवता) ग्रमिति, अथवाऽनवगतम्, अपरिच्छिन्नमग्रं, परिमाणं यस्य तत्तथा, अत एव दीहमद्धं ति दीर्घाद्धं दीर्घकालं दीर्घाध्वं वा दीर्घमार्ग चाउरतन्ति चतुरन्तम्, देवादिगतिभेदात् पूर्वादिदिग्भेदाच्च चतुर्विभागंतदेव स्वार्थिका 0 कषायतः स्थित्यनुभागबन्धं करोति। // 60 //