SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-१ // 59 // १शतके उद्देशकः१ सूत्रम् 18 असंवृत्तसंवृताणगारसिद्धिरादि प्रश्नाः / चणं अणवदग्गंदीहमद्धं चाउरंतसंसारकंतारं वीइवयइ, से एएणतुणं गोयमा! एवं वुच्चइ-संवुडे अणगारे सिज्झइजाव अंतं करेइ॥ सूत्रम् 18 // असंवुडे ण मित्यादि व्यक्तम्, नवरमसंवुडे णं ति, असंवृतोनिरुद्धाश्रवद्वारः, अणगारे त्ति, अविद्यमानगृहः साधुरित्यर्थः सिज्झइ त्ति सिध्यति, अवाप्तचरमभवतया सिद्धिगमनयोग्यो भवति, बुज्झइ त्ति स एव यदा समुत्पन्नकेवलज्ञानतया स्वपरपर्यायोपेतान्निखिलान् जीवादिपदार्थान् जानाति तदा बुध्यत इति व्यपदिश्यते, मुच्चइ त्ति स एव संजातकेवलबोधो भवोपग्राहिकर्मभिः प्रतिसमयं विमुच्यमानो मुच्यत इत्युच्यते, परिनिव्वाइत्तिस एव तेषां कर्मपुद्गलानामनुसमयं यथा यथा क्षयमाप्नोति तथा तथा शीतीभवन् परिनिर्वातीति प्रोच्यते, सव्वदुक्खाणमंतं करेइत्ति स एव चरमभवायुषोऽन्तिमसमये क्षपिताशेषकाशः सर्वदुःखानामन्तं करोतीति भण्यत इति प्रश्नः, उत्तरं तु कण्ठ्यम्, नवरं नो इणढे समढे त्ति नो नैव, इणढे त्ति, अयम्, अनन्तरोक्तत्वेन प्रत्यक्षोऽर्थो भावः, समर्थः बलवान्, वक्ष्यमाणदूषणमुद्रप्रहारजर्जरितत्वात्, आउयवज्जाओ त्ति यस्मादेकत्र भवग्रहणे सकृदेवान्तर्मुहूर्त्तमात्रकाल एवायुषो बन्धस्तत उक्तमायुर्वर्जा इति सिढिलबंधणबद्धाओ त्ति श्लथबन्धनम्, स्पृष्टता वा बद्धता वा निधत्तता वा तेन बद्धाः, आत्मप्रदेशेषु संबन्धिताः पूर्वावस्थायामशुभतरपरिणामस्य कथञ्चिदभावादिति शिथिलबन्धनबद्धाः, एताश्चाशुभा एव द्रष्टव्याः, असंवृतभावस्य निन्दाप्रस्तावात्, ताः किमित्याह, धणियबंधणबद्धाओ पकरेंति त्ति गाढतरबन्धना बद्धावस्था वा निधत्तावस्था वा निकाचिता वा प्रकरोति, प्रशब्दस्यादिकर्मार्थत्वात्कर्तुमारभते, असंवृतत्वस्याशुभयोगरूपत्वेन गाढतरप्रकृतिबन्धहेतुत्वात्, आहच जोगा पयडिपएसं ति, पौनःपुन्यभावे त्वसंवृतत्वस्य ताः करोत्येवेति, योगात्प्रकृतिदेशबन्धौ॥ // 59 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy