________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ १शतके उद्देशकः१ सूत्रम् 10 ज्ञानादिधर्मकदबकम्। ऐहभविकादिज्ञानादि प्रश्नाः / // 57 // केणटेणं भंते! एवं वुच्चइ?, गोयमा! दुविहा तेउलेस्सा पन्नत्ता, तंजहा- संजया य असंजया ये त्यादि॥ 16 // भवहेतुभूतमारम्भं निरूप्य भवाभावहेतुभूतं ज्ञानादिधर्मकदम्बकं निरूपयन्नाह इहभविए भंते! नाणे परभविए नाणे तदुभयभविए नाणे?, गोयमा!इहभविए वि नाणे परभविए वि नाणे तदुभयभविए वि णाणे। दंसणंपि एवमेव / इहभविए भंते! चरित्ते परभविए चरित्ते तदुभयभविए चरित्ते?, गोयमा! इहभविए चरित्ते नो परभविए चरित्ते नो तदुभयभविए चरित्ते / एवं तवे संजमे।सूत्रम् 17 // इहभविए इत्यादि व्यक्तम्, नवरम्, इह भवे (ग्रन्थाग्रम् 1000) वर्तमानजन्मनि यद्वर्त्तते न तु भवान्तरे तदेहभविकम्, काकुपाठाच्चेह प्रश्नताऽवसेया, तेन किमैहभविकं ज्ञानमुत परभविए त्ति परभवे, वर्तमानानन्तरभाविन्यनुगामितया यद्वर्त्तते तत्पारभविकम्, आहोश्वित्तदुभयभविए त्ति तदुभयरूपयोः, इहपरलक्षणयोर्भवयोर्यदनुगामितया वर्त्तते तत्तदुभयभविकम्, इदं चैवं न पारभविकाद्भिद्यत इति परतरभवेऽपि यदनुयाति तद्वाह्यम्, इहभवव्यतिरिक्तत्वेन परतरभवस्यापि परभवत्वात्, ह्रस्वतानिर्देशश्चेह सर्वत्र प्राकृतत्वादिति प्रश्नः, निर्वचनमपि सुगमम्, नवरमिहभविए त्ति, ऐहभविकं यदिहाधीतं नानन्तरभवेऽनुयाति, पारभविकं यदनन्तरभवेऽनुयाति, तदुभयभविकं तु यदिहाधीतं परभवे परतरभवे चानुवर्तत इति / दंसणंपि एवमेव त्ति, दर्शनमिह सम्यक्त्वमवसेयम्, मोक्षमार्गाधिकारात्, यदाह सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः (तत्त्वा० अ०१ सू० 1), यत्र तु ज्ञानदर्शनयोरेव ग्रहणंस्यात्तत्र दर्शनं सामान्यावबोधरूपमवसेयमिति, एवमेवे ति ज्ञानवत् प्रश्ननिर्वचनाभ्यां (दर्शन) समवसेयम्, चारित्रसूत्रे निर्वचने विशेषः, तथाहि- चारित्रमैहभविकमेव, न हि चारित्रवानिह भूत्वा तेनैव चारित्रेण पुनश्चारित्री भवति, यावज्जीवताऽवधिकत्वात्तस्य, किञ्चचारित्रिणः संसारे सर्वविरतस्य देशविरतस्य च देवेष्वेवोत्पादात्, तत्र च // 57 //