SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 56 // १शतके उद्देशकः१ सूत्रम् 16 आरम्भादिनिरुपणम्। | नैरयिकादावात्मपराऽऽरम्भादि प्रश्नाः / एतदेवाह सिद्धविरहिए इत्यादि / व्यन्तरादयो यथा नारकास्तथाऽध्ये(त)व्याः, असंयतत्वसाधादिति ॥आत्मारम्भकत्वादि भिर्द्धमै वा निरूपिताः ते च सलेश्याश्चालेश्याश्च भवन्तीति सलेश्यांस्तांस्तैरेव निरूपयन्नाह सलेसा जहा ओहिय त्ति, लेश्या कृष्णादिद्रव्यसान्निध्यजनितो जीवपरिणामः, यदाह कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः। स्फटिकस्येव तत्राय, लेश्याशब्दः प्रयुज्यते॥१॥तत्र सलेश्या लेश्यावन्तो जीवाः, जहाओहिय त्ति यथा नारकादिविशेषणवर्जिता जीवा अधीताः, जीवा णं भंते! किं आयारंभा परारंभे त्यादिना दण्डकेन तथा सलेश्या जीवा अपि वाच्याः, सलेश्यानामसंसारसमापन्नत्वस्यासम्भवेन संसारसमापन्न इत्यादिविशेषणवर्जितानां शेषाणां संयतादिविशेषणानां तेष्वपि युज्यमानत्वात्, तत्र चायं पाठक्रमः- सलेसा णं भंते! जीवा किं आयारंभे त्यादि तदेव सर्वम्, नवरं जीवस्थाने सलेश्या इति वाच्यमिति, अयमेको दण्डकः, कृष्णादिलेश्याभेदात्तदन्ये षट्, तदेवमेते सप्त, तत्र कण्हलेसस्से त्यादि, कृष्णलेश्यस्य नीललेश्यस्य कापोतलेश्यस्य च जीवराशेर्दण्डको यथौधिकजीवदण्डकस्तथाऽध्येतव्यः प्रमत्ताप्रमत्तविशेषणवर्जः, कृष्णादिषु ह्यप्रशस्तभावलेश्यासु संयतत्वं नास्ति, यच्चोच्यते पुव्वपडिवण्णओ पुण अन्नयरीए उलेसाए त्ति, तमुव्यलेश्यांप्रतीत्येति मन्तव्यम्, ततस्तासु प्रमत्ताद्यभावः, तत्र सूत्रोच्चारणमेवम्, कण्हलेसाणं भंते! जीवा किं आयारंभा परारंभा तदुभयारंभा अनारंभा 4?, गोयमा! आयारंभावि जाव नो अणारंभा, से केणतुणं भंते! एवं वुच्चइ?, गोयमा! अविरइं पडुच्च एवं नीलकापोतलेश्यादण्डकावपीति, तथा तेजोलेश्यादेर्जीवराशेर्दण्डकाः 3 यथौघिका जीवास्तथा वाच्याः, नवरं तेषु सिद्धानवाच्याः, सिद्धानामलेश्यत्वात्, तच्चैवम्, तेउलेस्साणं भंते! जीवा किं आयारंभा 4?, गोयमा! अत्थेगइया आयारंभावि जाव नो अणारंभा, अत्थेगइया नो आयारंभा जाव अणारंभा, से पूर्वप्रतिपन्नचारित्रः पुनरन्यतरस्यां लेश्यायाम् / / // 56 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy