________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 55 // वा, एकाश्रयत्वं च कालभेदेनावगन्तव्यम्, तथाहि- कदाचिदात्मारम्भाः कदाचित्परारम्भाः कदाचित्तदुभयारम्भाः, अत 1 शतके एव नोअनारम्भाः, भिन्नाश्रयत्वं त्वेवम्, एके जीवा असंयता इत्यर्थः, आत्मारम्भा वा परारम्भा वेत्यादि / अथैकस्वभाव उद्देशक:१ सूत्रम् 16 त्वाज्जीवानां भेदमसंभावयन्नाह- से केणटेणं ति, अथ केन कारणेनेत्यर्थः, दुविहा पन्नत्त त्ति मयाऽन्यैश्च केवलिभिः, अनेन आरम्भादिसमस्तसर्वविदां मताभेदमाह, मतभेदे तु विरोधिवचनतया तेषामसत्यवचनतापत्तिः, पाटलीपुत्रस्वरूपाभिधायकविरुद्ध निरुपणम्। नैरयिकादावचनपुरुषकदम्बकवदिति, प्रमत्तसंयतस्य हि शुभोऽशुभश्च योगः स्यात् संयतत्वात्प्रमादपरत्वाच्चेत्यत आह-सुभंजोगं पडुच्च वात्मपराडत्ति शुभयोग उपयुक्ततया प्रत्युपेक्षणादिकरणम्, अशुभयोगस्तु तदेवानुपयुक्ततया, आह च पुढवी आउक्काए तेऊवाऊवणस्सइ रम्भादि प्रश्राः / तसाणं / पडिलेहणापमत्तो छण्हपि विराहओ होइ॥१॥ तथा सव्वो पमत्तजोगो समणस्स उ होइ आरंभो। त्ति, अतः शुभाशुभौ / योगावात्मा(ना)रम्भादिकारणमिति / अविरइं पडुच्चत्ति, इहायंभावः- यद्यप्यसंयतानांसूक्ष्मैकेन्द्रियादीनांनाऽऽत्मारम्भकादित्वं साक्षादस्ति तथाऽप्यविरतिं प्रतीत्य तदस्ति तेषाम्, न हि ते ततो निवृत्ताः, अतोऽसंयतानामविरतिस्तत्र कारणमिति, निवृत्तानां तु कथञ्चिदात्माद्यारम्भकत्वेऽप्यनारम्भकत्वम्, यदाह जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स। सा होइ निजरफला अज्झत्थविसोहिजुत्तस्स॥१॥त्ति।सेतेणटेणं ति, अथ तेन कारणेनेत्यर्थः।।अथाऽऽत्मारम्भकत्वादित्वमेव नारकादिचतुर्विंशतिदण्डकैर्निरूपयन्नाह नेरइयाण मित्यादि व्यक्तम्, नवरं मणुस्से त्यादावयमर्थः- मनुष्येषु संयतासंयतप्रमत्ताप्रमत्तभेदाः पूर्वोक्ताः सन्ति ततस्ते यथा जीवास्तथाऽध्येतव्याः किन्तु संसारसमापन्ना इतरे च ते न वाच्याः, भववर्त्तित्वादेव तेषामिति, 0प्रतिलेखनाप्रमत्तः (कुम्भकारशालादिस्थितः) पृथिव्यप्तेजोवायुवनस्पतित्रसानां षण्णामपि विराधको भवति // 1 // 0 श्रमणस्य तु सर्वः प्रमत्तयोग आरम्भो भवति॥3 0 सूत्रोक्त विधिसमग्रस्य यतमानस्य या विराधना भवेत् साऽपि निर्जरफलाऽध्यात्म (परिणाम) विशुद्धियुक्तस्य // 1 //