________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 53 // नैरयिकादा वात्मपराऽऽ माहारादि वस्तु यथा नागकुमाराणां तथा दृश्यम्, व्यन्तराणां नागकुमाराणां च प्रायः समानधर्मत्वात्, तत्र व्यन्तराणां १शतके स्थितिर्जघन्येन दश वर्षसहस्राणि, उत्कर्षेण तु पल्योपममिति / जोइसियाणंपी त्यादि, ज्योतिष्काणामपि स्थितेरवशेषं तथैव उद्देशकः१ सूत्रम् 16 यथा नागकुमाराणाम्, तत्र ज्योतिष्काणां स्थितिर्जघन्येन पल्योपमाष्टभाग उत्कर्षेण पल्योपमं वर्षलक्षाधिकमिति, नवरम्, आरम्भादिउस्सास त्ति केवलमुच्छासस्तेषां न नागकुमारसमानः किन्तु वक्ष्यमाणः, तथा चाह, जहन्नेणं मुहत्तपुहुत्तस्से त्यादि, पृथक्त्वं निरुपणम्। द्विप्रभृतिरानवभ्यः, तत्र यजघन्यं मुहूर्तपृथक्त्वं तद्द्त्रिा मुहूर्ताः, यच्चोत्कृष्टं तदष्टौ नव वेति, आहारोऽपि विशेषित एव, तथा / चाह-आहारो इत्यादि,वेमाणियाणं ठिई भाणियव्वा ओहिय त्ति, औघिकी,सामान्या, साच पल्योपमादिका त्रयस्त्रिंशत्सागरो रम्भादि प्रश्नाः / पमान्ता, तत्र जघन्या सौधर्ममाश्रित्य, उत्कृष्टा चानुत्तरविमानानीति, उच्छ्रासप्रमाणंतु जघन्यं जघन्यस्थितिकदेवानाश्रित्य, इतरत्तूत्कृष्टस्थितिकानाश्रित्येत्यर्थः, अत्र गाथा जस्स जइ सागराइं तस्स ठिई तत्तिएहिं पक्खेहिं। ऊसासो देवाणं वाससहस्सेहि आहारो॥१॥त्ति / तदेतावता ग्रन्थेनोक्ता चतुर्विंशतिदण्डकवक्तव्यता, इयं च केषुचित्सूत्रपुस्तकेष्वेवं ठिई आहारो इत्यादिनातिदेशवाक्येन दर्शिता, सा चेतो विवरणग्रन्थादवसेयेति ॥१५॥उक्ता नारकादिधर्मवक्तव्यता, इयं चारम्भपूर्विकेत्यारम्भनिरूपणायाह जीवाणं भंते! किं आयारंभा परारंभा तदुभयारंभा अनारम्भा?, गोयमा! अत्थेगइयाजीवा आयारंभावि परारंभावितदुभयारंभावि नो अणारंभा, अत्थेगइया जीवा नो आयारंभा नो परारंभा नो तदुभयारंभा अणारंभा॥से केणतुणं भंते! एवं वुच्चइ- अत्थेगइया जीवा आयारंभावि? एवं पडिउच्चारेयव्वं, गोयमा! जीवादुविहा पण्णत्ता, तंजहा-संसारसमावन्नगाय असंसारसमावनगा य, तत्थ यस्य यावन्ति सागरोपमाणि स्थितिस्तस्य तावद्भिः पक्षरुच्छासस्ततिभिर्वर्षसहस्रैराहारस्तु देवानाम् / /