________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-१ // 51 // परितनकोणेऽपि वाच्यम्, यदा पुनरध उपरि चालोको भवति तदा चतसृषु (दिक्षु), यदा तु पूर्वादीनां षण्णां दिशामन्यतरस्यामलोको भवति तदा पञ्चस्विति, फासओ कक्खडाई ति, इह कर्कशादयो रूक्षान्ताः स्पर्शा दृश्याः, सेसं तहेव त्ति शेष भणितावशेषं तथैव यथा नारकाणां तथा पृथिवीकायिकानामपि, तच्चेदम्, जाई भंते! लुक्खाइं आहारेति ताई किं पुट्ठा अपुट्ठाइं?, जइ पुट्ठाई किं ओगाढाइं अणोगाढाइं? इत्यादि। नाणत्तं ति नानात्वं भेदः पुनः पृथिवीकायिकानां नारकापेक्षया हारं प्रतीदं यथा कइभाग मित्यादि तत्र फासाइंति त्ति स्पर्श कुर्वन्ति स्पर्शयन्ति स्पर्शनेन्द्रियेणाहारपुद्गलानां कतिभागं स्पृशन्तीत्यर्थः, अथवा स्पर्शनास्वादयन्ति प्राकृतशैल्या फासायंति, स्पर्शेन वाऽऽददति गृह्णन्त्युपलभन्त इति फासाइंति, इदमुक्तं भवति, यथा रसनेन्द्रियपर्याप्तिपर्याप्तका रसनेन्द्रियद्वारेणाहारमुपभुञ्जाना आस्वादयन्तीति व्यपदिश्यन्त एवमेते स्पर्शनेन्द्रियद्वारेणेति, सेसं जहा नेरइयाणं ति, तच्चैवम्, पुढविकाइयाणं भंते! पुव्वाहारिया पोग्गला परिणये त्यादि, प्राग्वच्च व्याख्येयमिति / एवं जाव वणस्सइकाइयाणं ति, अनेन पृथिवीकायिकसूत्रामि(त्राणी)वाप्कायिकादिसूत्राणि समानीत्युक्तम्, स्थितौ पुनर्विशेषोऽत एवाह, नवरं ठिई वण्णेयव्वा जा जस्स त्ति, तत्र जघन्या सर्वेषामन्तर्मुहूर्त्तम्, उत्कृष्टा त्वपांसप्त वर्षसहस्राणि तेजसामहोरात्रत्रयं वायूनां त्रीणि वर्षसहस्राणि वनस्पतीनां दशेति, उक्ता चेयं पृथिव्यादिक्रमेण बावीसाइं सहस्सा 1 सत्त सहस्साई 2 तिनिहोरत्ता 3 / वाए तिन्नि सहस्सा 4 दस वाससहस्सिया रुक्खे 5 // 1 // ति / बेइंदियाणं ठिइ भणिऊण ऊसासो वेमायाए त्ति वक्तव्य इति शेषः, स्थितिश्च द्वीन्द्रियाणांद्वादशवर्षाणि, द्वीन्द्रियाणामाहारसूत्रे यदुक्तम्, तत्थणं जे से आभोगनिव्वत्तिए से णं असंखेज्जसमइए अंतोमुहुत्तिए वेमायाए आहारट्टे समुप्पज्जइ त्ति, तस्यायमर्थः- असङ्ख्यातसामयिक आहारकालो 0 द्वाविंशतिः सहस्राणि सप्त सहस्राणि त्रीण्यहोरात्राणि / वायौ त्रीणि सहस्राणि वृक्षे दश वर्षसहस्राणि // 1 // १शतके उद्देशकः१ सूत्रम् 15 असुरकुमारादिपृथिवीकायादि द्वीन्द्रीयादि मनुष्यादि वानमन्तरादिवैमानिकान्तानामाहारस्थित्यादि प्रश्राः। // 51