________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 49 // बध्नाति, यदाह कृत्स्नैर्देशैः स्वकदेशस्थं रागादिपरिणतो योग्यम् / बध्नाति योगहेतोः कर्म स्नेहोक्त इव च मलम् // 1 // इति / एवमुदीरणावेदनाऽपवर्तनासंक्रमणनिधत्तनिकाचनानि भाव्यानि, निर्जरा तु पुद्गलानां निरनुभावीकृतानामात्मप्रदेशेभ्यः सातनम्, साच नियमाञ्चलितस्य कर्मणो नाचलितस्येति, इह सङ्ग्रहणीगाथा बंधोदये त्यादि वितार्था, केवलमुदयशब्देनोदीरणा गृहीतेति॥१४॥ उक्ता नारकवक्तव्यता, अथ चतुर्विंशतिदण्डकक्रमागतामसुरकुमारवक्तव्यतामाह असुरकुमाराण मित्यादि, तत्रासुरकुमारवक्तव्यता नारकवक्तव्यतावन्नेया, यतः ठिइऊसासाहारे त्यादिगाथोक्तानि सूत्राणि 40 परिणयचिए इत्यादिगाथागृहीतानि 6 भेइयचिए इत्यादिगाथागृहीतानि 18 बंधोदये त्यादिगाथागृहीतानि 8, तदेवं द्विसप्ततिः सूत्राणि नारकप्रकरणोक्तानि त्रयोविंशतावसुरादिप्रकरणेषु समानि, नवरं विशेषोऽयमुक्कोसेणं साइरेगं सागरोवममिति यदुक्तं तद्बलिसञ्जमसुरकुमारराजमाश्रित्योक्तं, यदाह चमर 1 बलि 2 सार 1 महियं ति, सत्तण्हं थोवाणं ति सप्तानां स्तोकानामुपरीति गम्यते, स्तोकलक्षणं चैवमाचक्षते हट्ठस्स अणवगल्लस्स, निरुवकिट्ठस्स जंतुणो / एगे ऊसासनीसासे, एस पाणुत्ति वुच्चइ॥१॥ सत्तपाणूणि से थोवे, सत्त थोवाणि से लवे। लवाणं सत्तहत्तरिए, एस मुहत्ते वियाहिए॥ 2 // इदं जघन्यमुच्छ्रासादिमानं जघन्यस्थितिकानाश्रित्यावगन्तव्यम्, उत्कृष्टं चोत्कृष्टस्थितिकानाश्रित्येति / चउत्थभत्तस्स त्ति चतुर्थभक्तमित्येकोपवासस्य सज्ञा ततस्तस्योपरि, एकत्र दिने भुक्त्वाहोरात्रं चातिक्रम्य तृतीये(दिने)भुञ्जत इति भावः। नागकुमारवक्तव्यतायामुक्कोसेणं देसूणाई दो पलिओवमाई ति यदुक्तं तदुत्तरश्रेणिमाश्रित्यावसेयम्, यदाह दाहिण दिवड्डपलियं दो देसूणुत्तरिल्लाण मिति / मुहत्तपुहुत्तस्स त्ति, मुहूर्त उक्तलक्षण एव, & 0 चमरबलिनोः (क्रमश:) सागरमधिकं च // ॐ हृष्टस्याग्लानस्य निरुपकृष्टस्य जन्तोरेक उच्छ्रासनिःश्वासो य एष प्राण इत्युच्यते // 1 // सप्त प्राणास्ते स्तोकः सप्त स्तोका अथ लवः। लवानां या सप्तसप्ततिरेष मुहूर्त इति व्याख्यातः॥ 0 दाक्षिणात्यानां सार्द्धपल्यमुत्तरत्यानां देशोने द्वे // १शतके उद्देशकः१ सूत्रम् 14 नैरयिकानां कर्मबन्धादि। अष्टप्रश्नाः। सूत्रम् 15 असुरकुमारादिपृथिवीकायादि द्वीन्द्रीयादि | मनुष्यादि | वानमन्तरादिवैमानिकान्तानामाहारस्थित्यादि प्रश्ना : / // 49 //