________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 45 // १शतके उद्देशकः१ सूत्रम् 14 नैरयिकानां कर्मबन्धादि। अष्टप्रश्नाः / नेरइयाण मित्यादि व्यक्तम्, नवरं तेयाकम्मत्ताए त्ति तेजःशरीरकार्मणशरीरतया, तद्रूपतयेत्यर्थः, अतीतकाल समए त्ति कालरूपः समयो न तु समाचाररूपः कालोऽपि समयरूपो न तु वर्णादिस्वरूप इति परस्परेण विशेषणात्कालसमयोऽतीतः कालसमयः(अतीतकालसमयः),अतीतकालस्य चोत्सर्पिण्यादेः समयः परमनिकृष्टोऽशोऽतीतकालसमयस्तत्र, पडुप्पन्न त्ति प्रत्युत्पन्नो वर्तमानः, नोऽतीतकाले इत्यादावतीतानागतकालविषयग्रहणप्रतिषेधो विषयातीतत्वात्, विषयातीतत्त्वंच तयोर्विनष्टानुत्पन्नत्वेनासत्त्वादिति, प्रत्युत्पन्नत्वेऽप्यभिमुखान् गृह्णाति नान्यान्, गहणसमयपुरक्खडे त्ति ग्रहणसमयः पुरस्कृतोवर्तमानसमयस्य पुरोवर्ती येषांते ग्रहणसमय पुरस्कृताः,प्राकृतत्वादेवं निर्देशः, अन्यथा पुरस्कृतग्रहणसमया इति स्याद्, ग्रहीष्यमाणा इत्यर्थः 1, उदीरणा च पूर्वकालगृहीतानामेव भवति, ग्रहणपूर्वकत्वादुदीरणायाः, अत उक्तम्, अतीतकालसमयगृहीतानुदीरयन्तीति, गृह्यमाणानांग्रहीष्यमाणानांचागृहीतत्वादुदीरणाऽभावस्तत उक्तं नो पडुप्पन्ने त्यादिवेदनानिर्जरासूत्रयोरप्येषैवोपपत्तिरिति 3-4 // 13 // अथ कर्माधिकारादेवेयमष्टसूत्री नेरइयाणं भंते! जीवाओ किंचलियं कम्मं बंधंति अचलियं कम्मं बंधंति?, गोयमा! नो चलियं कम्मं बंधंति अचलियं कम्म बंधति भनेरइयाणंभंते! जीवाओ किंचलियं कम्मं उदीरेंति अचलियं कम्मं उदीरेंति?,गोयमा! नो चलियंकम्मं उदीरेंति अचलियं कम्मं उदीरेंति 2 / एवं वेदेति३ उयटेंति 4 संकामेंति 5 निहत्तेति 6 निकायेंति 7, सव्वेसु अचलियं नो चलियं / नेरइयाणं भंते! जीवाओ किं चलियं कम्मं निजरेंति अचलियं कम्मं निजरेंति?, गोयमा! चलियं कम्मं निजरेंति नो अचलियं कम्मं निजरेंति 8, गाहाः- बंधो-दय-वेदो-यट्ट-संकमे तह निहत्तण-निकाये। अचलिय(य) कम्मंतु(ए) भवे चलियंजीवाउ(ओ) निजरए // 1 // ॥सूत्रम् 14 // // 45 //