________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 44 // १शतके उद्देशकः१ सूत्रम् 13 नैरयिकानां कर्मबन्धादि। अष्टप्रश्ना:। प्रकृतीः। नन्वात्माऽमूर्त्तत्वादध्यवसायप्रयोगेण // 1 // अपरस्त्वाह मोत्तूण आउयं खलु दंसणमोहं चरित्तमोहं च। सेसाणं पगईणं उत्तरविहिसंकमो भणिओ॥१॥ एतदेव निदर्शाते, यथा कस्यचित्सद्वेद्यमनुभवतोऽशुभकर्मपरिणतिरेवंविधा जाता येन तदेव सद्वेद्यमसद्वेद्यतया संक्रामतीति, एवमन्यत्रापि योज्यमिति / निधत्तेसु त्ति निधत्तान्कृतवन्तः, इह च विश्लिष्टानां परस्परतः पुद्गलानां निचयं कृत्वा धारणं रूढिशब्दत्वेन निधत्तमुच्यते, उद्वर्त्तनाऽपवर्तनव्यतिरिक्तकरणानामविषयत्वेन कर्मणोऽवस्थानमिति / निकाइंसु त्ति निकाचितवन्तः, नितरां बद्धवन्त इत्यर्थः, निकाचनं चैषामेव पुद्गलानां परस्परविश्लिष्टानामेकीकरणमन्योऽन्यावगाहिता, अग्निप्रतप्तप्रतिहन्यमानशूचीकलापस्येव, सकलकरणानामविषयतया कर्मणो व्यवस्थापनमितियावत्। भिज्जंती त्यादिपदानां संग्रहणी यथा भेइये त्यादिगाथा गतार्था, नवरम्, अपवर्तनसंक्रमनिधत्तनिकाचनपदेषु त्रिविधः कालो निर्देष्टव्यः, अतीतवर्तमानानागतकालनिर्देशेन तानि वाच्यानीत्यर्थः, इह चापवर्तनादीनामिव भेदादीनामपि त्रिकालता युक्ता,न्यायस्य समानत्वात्, केवलमविवक्षणान्न तन्निर्देशः सूत्रे कृत इति // 12 // अथ पुद्गलाधिकारादिदं सूत्रचतुष्टयमाह नेरइयाणं भंते! जे पोग्गले तेयाकम्मत्ताए गेण्हंति ते किं तीतकालसमए गेण्हंति? पडुप्पन्नकालसमए गेण्हंति? अणा० का० समए गेण्हंति?, गोयमा! नो तीयकालसमए गेण्हंति पडुप्पन्नकालसमए गेण्हंति नो अणा० समए गिण्हंति 1? नेरइयाणं भंते! जे पोग्गला तेयाकम्मत्ताए गहिए उदीरेंति ते किं तीयकालसमयगहिए पोग्गले उदीरेंति पडुप्पन्नकालसमए घेप्पमाणे पोग्गले उदीरेंति गहणसमयपुरक्खडे पोग्गले उदीरेंति?, गोयमा! अतीयकालसमयगहिए पोग्गले उदीरेंतिनो पडुप्पन्नकालसमए घेप्पमाणे पोग्गले उदीरेंति नो गहणसमयपुरक्खडे पोग्गले उदीरेंति 2, एवं वेदेति 3 निजरेंति 4 // सूत्रम् 13 // Oआयुर्दर्शनमोहं चारित्रमोहं च मुक्त्वा। शेषाणां प्रकृतीनामुत्तरविधिसंक्रमो भणितः॥ 1 // // 44 //